________________
२९३
समतामहोदधिः महाकाव्यम्
सम्प्राप्ता मरुभूकन्या
ललाटतिलकोपमम् । पिण्डवाडापुरं ज्येष्ठ
मासे ततो विहृत्य ते ॥२१॥
कर्मनाशि तपो दीर्घ,
चिकीर्षुभिरनन्तरम् । प्रवेशादुपवासास्तु
श्रीपद्मविजयैः कृताः ।।२२।।
एकैव भावना तेषां,
कर्तुं कर्मा रिणाऽभवत् । प्रचण्डं चरमं युद्धं,
सर्वशक्त्या यशस्विनाम् ।।२३।।
प्रथमस्य ह्यभावेन,
संहननस्य सम्प्रति । सर्वथा कर्मणो नाशं,
कर्तुं जीवन शक्यते ।।२४।।