________________
२४१
-समतामहोदधिः महाकाव्यम्
आवश्यकक्रियाः कृत्वा,
द्वितीये दिवसे प्रगे। नलिकया गृहीतं तै
रुचितसमये द्रवम् ।।१३०॥
क्षुधातृषे ततः शान्ते,
परमन्यास्तु वेदनाः । प्रावर्तन्त समाः प्राग्व
द्विसोढास्ताः शमेन तैः ।।१३१ ।।
पूज्या अनेकशस्तेषां,
गत्वाऽऽसने कृपापराः । समाधिकरसच्छास्त्र
वचांस्यश्रावयन्मुदा ।।१३२।।
मुहूर्त कान्तिपंन्यासः,
श्रावितवान्महर्षिणा । रचितं पञ्चसूत्रञ्च,
सुस्तोत्राणि दिने दिने ।।१३३ ।।
१. समाः = सर्वाः ।