________________
२३९
इत्थं प्रदर्श्य तेनोक्तमुपायेनामुना खलु ।
सञ्जीविष्यत्ययं रोगी.
मे यत्नः सफलोऽभवत् । । १२६ ।।
राजकोटपुरं शीघ्रं,
वैद्यः प्रतिगतस्ततः ।
ते पुनर्लब्धचैतन्या,
• समतामहोदधिः महाकाव्यम्
अन्वभवँश्च वेदनाम् ।।१२७।।
संयमपूतदेहास्ते,
प्रतिक्रान्तिं तदाऽस्मरन् ।
ततस्ते कारितास्तां तु,
भक्तितत्परसाधुभिः । ।१२८ ।।
अवस्थायामपीदृश्यां,
ते प्रतिक्रमणे तदा ।
अतिजागरका आस
कारकक्षतिमार्जकाः । । १२९ ।।