________________
२२३.
__ समतामहोदधिः महाकाव्यम्
आदौ क्षमापनायास्तै
राराधना शुभा कृता । मस्तकं न्यस्य पूज्याङ्के,
दीनवाचेति तेऽवदन् ।।१३।। कृष्ट्वा संसृतिगर्तायाः,
प्रवेशो मम कारितः । शुभसंयमहर्म्य तु,
भवभिरुपकारिभिः ।।१४।। सुश्रुतं गणिपंन्यास
पदे दत्ते तथा कृता । चिन्ता बह्वी भवद्भिर्मे,
भविष्याम्यनृणः कथम् ?।।९५।। अविनयो मयाऽज्ञानाद्
बहुशो भवतां कृतः । अपराधास्त्रिभिर्योगैः,
कृतास्तथाधमात्मना ।।९६॥ पृथुचित्तैस्त्विदं क्षम्यं,
भवद्भिः सकलं परम् । दीने मयि कृपां कृत्वा, करुणारससागरैः ।।९७॥पञ्चभिः कुलकम् ।।