________________
२०१
समतामहोदधिः महाकाव्यम्
आचाराङ्गादिकान्केचित्,
पठितवन्त आगमान् । नूतनं कर्मसाहित्यं,
केचन यतयोऽसृजन ॥४९॥
.
प्राकृतां समशिक्षन्त,
___ परे भाषाञ्च संस्कृताम् । अपठन्दीक्षिता नूत्नाः, . प्रकरणानि केचन ।।५०।।
इत्थं ज्ञानमहायागः,
प्रारब्धो मुनियज्वभिः । तपोयज्ञोऽपि सञ्जात,
एवमेवाऽतिसुन्दरः ॥५१॥
अकुर्वन्वर्धमानस्य,
केचित्तपस ओलया । परैस्तपः समारब्धं,
विंशतिस्थानकाभिधम् ।।५२ ।।