________________
१८९.
_समतामहोदधिः महाकाव्यम्
बहुमानो गुरुणाञ्च,
भक्तिर्वचनपालनम् । आसन्मन्त्रसमा एते,
गुणास्तदीयजीवने ॥२५॥
पदार्थाः प्रमुखा एत,
आसँस्तद्वाचनास्वपि । अगुञ्जद्गुरुतत्त्वस्य,
नादस्तेषां सदाऽऽत्मनि ।।२६।।
रम्याद्भावपुरात्तूर्णं,
सुरेन्द्रपुरमागताः । आश्रितवत्सलाः पूज्याः,
पद्मानां चिन्तिता रुजा ।।२७।।
तत्र वैशाखमासस्य
सितषष्ठ्यां समर्पिता । पंन्यासपदवी पूज्यैः,
श्रीपद्मेभ्योऽपरैः सह ।।२८।।