________________
१५९
समतामहोदधिः महाकाव्यम्
प्राप्ताः पूज्यास्ततो राज
नगरं तत्र वाचनाः । ललितविस्तरायाश्च,
भव्या श्रीभानवोऽददुः ।।२५॥ ।
साधुभिलिखिताः सर्वा,
मुद्रापिताश्च तास्ततः । ग्रन्थः 'परमतेजे ति,
तदोत्तमः प्रकाशितः ।।२६।।
पद्माः समतयाऽकुर्व
विस्मृत्य व्याधिवेदनाः । धर्मस्याराधनाः शीघ्रं,
परमपदसाधिकाः ॥२७॥
निर्ग्रन्थाख्यो भुवि ख्यातः,
गच्छो वीरप्रभोः पुरा । चान्द्रगच्छतया पश्चा
द्वनवासीत्यनन्तरम् ।।२८।।