________________
१०५.
आनयस्ते सदा भिक्षां, दोषविमुक्तचर्यया ।
तयाऽकुर्वंश्च निर्वाहं,
सुसमितास्तृतीयया ।। ३६ ।।
व्रतिनः स्वेन भिक्षार्थं,
सहैव नयनेन ते ।
इत्यशिक्षन्त निर्दोषा,
भिक्षा ग्राह्या कथं किल ? ||३७||
अप्रमत्तेन पिण्डादि
. समतामहोदधिः महाकाव्यम्
ग्रहणे खलु साधुना ।
बोध्यन्ते बहवो जीवाः,
शासनं वेक्त्रपेक्षया ।।३८।।
प्रमोचने च वस्तूनां,
ग्रहणे प्रतिलिख्य ते ।
द्वारादीनां तथोद्घाटे,
पिधाने सुष्ट्वमार्जयन् ।। ३९ ।।
१. समित्येत्यध्याहार्यम् । २. वक्
=
वक्तुः सकाशात् ।