________________
८९ .
समतामहोदधिः महाकाव्यम्
स्वाध्यायं साधनां यस्तु,
करोति समतां तथा । धारयतीति साधुः स,
शास्त्रेषु कथितं यथा ।।४।। योऽपि करोति साहाय्यं,
स साधुरिति कथ्यते । उक्तं तथैव तत्रैव,
परममुनिभिः खलु ।।५।। युग्मम् ।।
व्यसनिनः परार्थस्य,
पद्मा अप्यभवन्खलु । केन्सरेऽपि यतोऽस्वास्थ्यं,
मुनेर्निशम्य कस्यचित् ।।६।। साहाय्यार्थं तु ते स्वीयां,
घोरां विस्मृत्य वेदनाम् । अधावन्मनसः स्वास्थ्यं,
तस्य चाऽरचयस्तथा ।।७।।। युग्मम् ।।