________________
७९
कर्मवशेन जातायां, स्खलनायां मुनेस्तु ते ।
प्रायश्चित्तस्य दानेन,
तस्याः शुद्धिमकारयन् ।। ४४ ।।
समीपे वासमात्रेण,
तेषां सुब्रह्मचारिणाम् ।
विषयवासनाः सर्वा,
. समतामहोदधिः महाकाव्यम्
असुमतां तिरोऽभवन् ।।४५ ।।
नामस्मरणमात्रेण,
तेषां तु निर्मलात्मनाम् ।
वासनावासितैर्जीवै
ब्रह्मचर्यं सुरक्ष्यते ।।४६ ॥
चिन्तितं विफलं ब्रह्म
चारिणा नैव जायते ।
उक्तिरियं यथार्था तु
भूता तदीयजीवने ।। ४७ ।।