________________
_ समतामहोदधिः महाकाव्यम्
प्रेमसूरीधरैः शुद्धिः,
शोभना सुनियन्त्रितैः । प्रसाधिता त्रिभिर्योग
ब्रह्मचर्यस्य जीवने ।।४।।
ब्रह्मचर्यस्य गुप्तीस्ते,
स्वयमपालयन्नव । समुदायमुनीस्तासां,
प्रेरयन्दृढपालने ।।४१॥
क्षमिष्ये क्षतयो वोऽह
मन्येषु विषयेष्विति । ब्रह्मचर्यव्रते नैव,
मुनिभ्योऽकथयस्तु ते ।।४।।
ते विजातीयसम्पर्क,
त्यक्तवन्तः स्वजीवने । त्यागं तस्याऽपि साधुभ्यः,
सदाऽपैक्षन्त सर्वथा ।।४३।।