________________
७५
ब्रह्मचर्यसाधना ।
ब्रह्मचर्यं तु साधुत्वप्राणभूतं विवर्त्तते ।
तद्रहितो यतः साधु
र्भवति साधुरेव न । । ३६॥
रहितो ब्रह्मचर्येण,
साधुश्च यत्युपासकः ।
विरहितः सुवृत्तेन,
. समतामहोदधिः महाकाव्यम्
समानौ मृतकेन हि ।। ३७।।
सर्वेषां च सुधर्माणां,
गुणानां प्रतिपादितम् ।
ब्रह्मचर्यं सवृत्तिकं,
मूलं पूर्वमहर्षिभिः ।। ३८ ।।
देशतः सर्वतो वा यो,
ब्रह्मचर्यं न रक्षति ।
नानुभवति चित्तस्य,
प्रसन्नतां स मानसीम् ।। ३९ ।।