________________
समतामहोदधिः महाकाव्यम्
न शान्ता वेदना तीव्रा,
करे छेदेऽपि कारिते । तन्निवृत्तय आनीता
स्ते राजनगरे ततः ॥३२॥
शस्त्रक्रिया कृता तत्र,
सुवैद्यनाऽपरेण तु । सुप्रशान्ता तया पीडा,
चातुर्मास्यास्त्वनन्तरम् ।।३३।।
एवं शारीरिकी पीडा,
षण्मासाँस्तैरसह्यत । आर्त्तध्यानमृते चित्त
स्वास्थ्येनाऽऽनन्दपूर्वकम् ।।३४।।
प्रतिकूलप्रसङ्गेषु,
समतां मानसीमपि । अद्भुतां धृतवन्तस्ते,
वज्रोपममनोबलाः ।।३५।।