________________
७१
समतामहोदधिः महाकाव्यम्
पीडिताः पुरि खम्भाते,
चातुर्मास्यां दिनान्बहून् । भृशं ज्वरेण जीर्णेन,
ते कर्मभेदनोद्यताः ।।२८॥
सोमलेन्जेक्शनं तेभ्यः,
प्रदत्तं भिषजा तदा । निवारणाय पीडायाः,
शिरायां तत्तु नाऽलगत् ।।२९।।
विलग्नं तत्परं मांस
पेश्यां जातः करस्ततः । पृथुलो वेदना दाह
ज्वरयोरप्यपीडयत् ।।३०॥
तथापि सोढवन्तस्तां,
ते तं वैद्यं तथाऽवदन् । क्षतिर्न ते विपाकोऽयं,
किन्तु मेऽशुभकर्मणाम् ।।३१।। १. इन्जेक्शनम्- अनेन सूचीमुखेनाऽस्त्रेण शरीरान्तर्द्रवौषधं दीयते ।