________________
६७
समतामहोदधिः महाकाव्यम्
सङ्घस्य च प्रगत्यर्थं,
शासनसमुदाययोः । समतया प्रभूतं तैः,
सोढं दृढमनोबलैः ।।२०॥
व्रतपूतशरीरे प्र
कोपो वायोर्यदाऽभवत् । उपचाराँस्तदा ते न,
व्यदधुः सत्त्वशालिनः ।।२१।।
असह्यवेदनायां त,
उष्णजलेन तापनम् । अकुर्वन्वेदनाशान्त्यै,
दोषविरहितेन च ।।२२।।
श्रीपद्मरागता शुद्ध
पारम्पर्येण सद्गुरोः । सहनशीलता स्वीय,
आत्मन्यपि विकासिता ।।२३।।