________________
६५
समतामहोदधिः महाकाव्यम्
मायाचारः किल स्वीय
प्रगतिप्रतिबन्धकः । परस्य हानिगर्तायां,
क्षेपकस्तैर्मतस्तथा ॥१६॥
सहनशीलतासाधना ।
साधनाशिखराण्युच्चै
रारोढं साधकेन हि । प्रथमं शिक्षितव्यैव,
परा सहनशीलता ।।१७।।
समतयाऽपि संयोगाः,
प्रतिकूला स्वजीवने । सोढव्या इति शब्दार्थः,
तस्याः किल प्रकीर्तितः ।।१८।।
प्रेमसूरीधरैः सोढाः,
शारीरिक्यः स्वजीवने । प्रभूता मानसिक्यश्च,
शमेन प्रतिकूलताः ।।१९।।