________________
न्यायमञ्जर्याम्
उपोद्घातः
न्यायमतसिद्धापवर्गः "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग:" इति गौतमसूत्रेण तत्त्वज्ञानेन शरीरादौ आत्मत्वभ्रमस्य निवृत्तेः रागद्वेषादिहानपूर्वकं जन्मापायादपवर्गः । तदनन्तरमपवर्गो मोक्ष इति सूत्रेण तच्छब्दस्योपलक्षणतया बुद्धयादिनवविशेषगुणानां संस्कारस्य च नाश उक्तः । तथा च मोक्षे आत्मनि संङ्ख्यादिपञ्चकव्यतिरिक्तं न किञ्चित्तिष्ठति । यद्यपि मनो नित्यं तथापि पुरीतद्व्यतिरिक्तशरीरदेशावच्छिन्नात्मनस्संयोगाभावान्न ज्ञानाद्यन्यतमगुणोत्पत्तिर्मोक्षकाले । आत्यन्तिकत्वञ्च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वमिति प्रकरणेषु परिष्कृतं विद्यते । ___ न्यायमते पाषाणकल्पस्य जडावस्थात्मकस्य मोक्षस्य चेतनेनाकाम्यत्वान् न पुरुषार्थत्वमित्येतन्मञ्जरीकृता समाधीयते, स्वरूपावस्थानमेव हि मोक्ष उच्यते । स्वरूपञ्च सुषुप्तयादौ प्रसिद्ध ज्ञानादिशून्यमात्मतत्त्वम्, तच्च जडम, तद्भावो मोक्ष इति न विरुध्यते । माण्डूक्योक्ता तुर्यावस्था तु संवित्तिशून्या आत्मस्थितिरेव, न तु चैतन्यं वा सुखं वा, येन मोक्षे नित्यसुखनयः स्यादिति वेदान्तिमतं खण्डयति । भासर्वज्ञस्तु न्यायसारे ( पृ० ५९५ )कुतो मुक्तस्य सुखोपभोगसिद्धिरिति चेत्, आगमात्
"सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।।
तं वै मोक्षं विजानीयात् दुष्प्रापमकृतात्मभिः ॥” इति च । तथा “आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन", "विज्ञानमानन्द ब्रह्म' इत्यादिश्रुतिभ्यश्च । दुःखाभावमात्रे गौणमिदमिति चेन्न; विषयविशेषादानन्दविशेषानुभवस्य भावरूपं सुखं विनोपपादयितुमशक्यत्वात् । मुख्यार्थे बाधकाभावात् । निवृत्तभारस्यापि वातादिसम्पर्कादेव सुखोत्पत्तिदर्शनात् ।