SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाण प्रकरणम् न च गुणप्रधानभावमन्तरेण संसर्गः पदार्थानामवकल्पते । न चाख्यातरहितं वाक्यं किञ्चित् प्रयोगयोग्यम्, अनुच्चारिते तस्मिन्नाकाङ्क्षाया अनिवृत्तेः । श्रोत्राकाङ्क्षानिवृत्तये च वाक्यानां लोके प्रयोगः । लोकवच्च वेदादप्यर्थोऽवसीयते । आख्याताच्च पूर्वापरीभूतः साध्यरूपोऽर्थोऽवगम्यते न सिद्धरूपः। सिद्धसाध्यसमुच्चारणे कस्य किंतन्त्रतेति चिन्तायां साध्यसिद्धये 5 सिद्धमुपात्तमिति प्रतीयते । साध्यञ्च साध्यमानत्वात् प्रधानमवगम्यते । तस्मात् तदेव वाक्यार्थः क्रियातो नापरञ्च तत् ॥ क्रिया हि प्रतीयमाना स्वनिष्पत्तये साधनान्याक्षिपति । तैश्च कैश्चित् सम्बध्यते । तानि च कानिचित् पदान्तरोपात्तानि भवन्ति, कानिचिद् वाक्यान्तरोपात्तानि कानिचित् प्रकरणपाठलभ्यानि कानिचिदारादुपकारकाणि, कानिचित् सन्निपत्त्योपकारकाणि कानिचिदन्तिकोपनिपतितान्यपि योग्यताविरहात् परिहरति, कानिचिदतिदूरवर्तीन्यपि योग्यानि स्वसम्पत्त्यर्थमाहरति । इत्येवं दृष्टादृष्टोपकारकारककलापसम्पद्यमानस्वरूपा क्रियैव वाक्यार्थः । , .... ४९ , 1 पदान्तरोपात्तानीति । एकवाक्यत्वे सति । यथा वायव्यं श्वेतमालभेतेति..... पदेन .... रुपात्तः । वाक्यान्तरोपात्तानि । 'अग्निहोत्रं जुहोति' इत्येतदपेक्षया 'दध्ना जुहोति' इति वाक्यान्तरेण दध्नो विधानं होमानुवादेन, अतोऽग्निहोत्रं जुहोतीति होमविधायकत्वाद् वाक्यान्तरमेतद् गुणविधायकम् । प्रकरणपाठलभ्यानि । वाक्यान्तरविहितानुवादं विनैव प्रयाजावघातादीनि 'समिधो यजति' इति ' व्रीहीनवहन्ति' इति वेत्यादिभिर्वाक्यै - विहितानि तत्प्रकरणपठितत्वात् तान्यप्याकाङ्क्षति । [ आरादुपकारकाणीति ।] तेषामपि 20 मध्ये कानिचिदाराद्दूरे अदृष्टेनोपकारेणोपकुर्वन्ति प्रयाजादीनि । कानिचित् सन्निपत्योपकारकाणि । दृष्टेन तुषकणविप्रमोकादिलक्षणेनोपकारेणोपकुर्वन्त्यवघातादीनि । कानिचिदन्तिको पनिपतितान्यपीति । यथा दर्शपूर्णमासप्रकरणे परिपठितानि पूषानुमन्त्रणादीनि । पूषादिदेवतानां तत्रासन्निधानादनुपयोगादन्तिके प्रकरणे श्रुतान्यपि परित्यज्यन्ते । कानिचिदतिदूरवर्तीन्यपीति । यथा दर्शपूर्णमासप्रकरणश्रुतानि पूषानुमन्त्रगादोनि दूरस्थोऽपि पौष्णश्वरुरि [स्व]र्गकामपदस्य च योग्यत्वा . दर्शनादनिष्यमाणस्ये ..... एतदेव किमर्थं पुनर न्या० म० ७ 10 15 25
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy