________________
आह्निकम् ]
प्रमाणप्रकरणम् कथमेतदितीदञ्च यो वा पर्यनुयुज्यते । इतरस्य परं हेतुस्तेन पर्यनुयुज्यते । वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणाशिनी । ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डुरः ।। यथा रूपाद्यसम्बद्धा न व्यक्तिरुपलभ्यते ।
तथैव जात्ययुक्तेति का ते व्यसनसन्ततिः ॥ अनुगतप्रतोत्यन्यथानुपपत्या जातिसिद्धिः
अगोव्यावृत्ततायां वा नैष प्रश्नो निवर्त्तते । कस्मादगोनिवृत्तं तदद्य जातं स्वलक्षणम् ॥ तस्माद् वस्तुस्वभावेऽस्य विदित्वाऽननुयोज्यताम् ।
चोद्यचुञ्चुत्वमुत्सृज्य प्रतिपत्तिनिरूप्यताम् । प्रतिपत्तिश्च विशेषेष्विव सामान्येषु च निरपवादा दर्शितैव, तस्माद् विशेषवदप्रत्याख्येयं सामान्यम् । विशेषवत् प्रत्यक्षत्वात् सामान्यस्य कः कल्पनार्थः ? यदि हि कार्यानुमेयं सामान्यं कल्पयेम तत एवमनुयुज्येमहि कार्यस्याप्यन्यथा सिद्धेः किं तत्कल्पनयेति । प्रत्यक्षे तु सामान्ये कोऽयमनुयोगः, 15 का चेयमनुवृत्तिज्ञानोत्पादिका शक्तिः, विशेषेभ्योऽव्यतिरिक्ता व्यतिरिक्ता वा, नित्यानित्या वा, तदाश्रिता स्वतन्त्रा वा, प्रत्यक्षा परोक्षा वेति विकल्प्यमाना
का ते व्यसनसन्ततिः । यामभ्यधाद् भवान्, न याति न च तत्रासीदस्ति पश्चान्न चांशवत् । जहाति पूर्व नाधारमहो व्यसनसन्ततिः ॥ इति ।
विशेषेभ्यो व्यतिरिक्ताऽव्यतिरिक्ता वेति । व्यतिरेके जातिरेवोक्ता, अव्यतिरेके तु जातिप्रत्ययस्य निर्विषयत्वम् । नित्यानित्या वेति । एकाऽनेका वेत्यर्थः। नित्यत्वे हि सर्वत्रैकत्वमनित्यत्वे तु प्रतिव्यक्त्यन्यत्वादनेकत्वम् । एका चेज्जातिरेव । अथानेका, एकाकारप्रत्ययस्य निर्विषयत्वम् । तदाश्रिता स्वतन्त्रा वा। तदाश्रितत्वपक्षे जातिरेव नामान्तरेणोक्ता । स्वातन्त्र्यपक्षे विषयनियमेन प्रत्ययानुत्पत्तिप्रसङ्गः, गव्यनाश्रिता चेत् 25 सा शक्तिः कथं तत्रैव प्रत्ययविशेषं जनयेत् ?
न्या० म०४