SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्ज [ पञ्चमम् ____ तस्माद् वृत्त्यनुपपत्तेरित्यदूषणम् । जातेः सर्वगतत्वं व्यक्तेश्च तद्व्यञ्जकत्वोपपादनम् ___ यदपि सर्वगतत्वं पिण्डगतत्वञ्च विकल्प्य दूषितम्, तदपि यत्किञ्चित् । यथा प्रतीतिरादिशति भगवती तथा वयमप्युपगच्छामः । सर्वसर्वगता जातिरिति तावदुपेयते । सर्वत्राग्रहणं तस्या व्यञ्जकव्यक्त्यसन्निधेः ॥ व्यक्तिर्व्यञ्जकतामेति जातेदृष्टव नान्यथा । दृष्टिर्यत्र यदा व्यक्तस्तदा तत्रैव तन्मतिः ॥ सर्वत्र विद्यते जातिर्न तु सर्वत्र दृश्यते । तदभिव्यञ्जिका यत्र व्यक्तिस्तत्रैव दृश्यते ॥ व्यक्तरन्यत्र सत्त्वे स्यात् किं प्रमाणं तदुच्यते । इहाप्यानीयमानायां गवि गोत्वोपलम्भनम् ॥ गोपिण्डेन सहैतस्या न चागमनसम्भवः । देहेनेवात्मनस्तस्मादिहाप्यस्तित्वमिष्यताम् ॥ अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम् । तस्मात् सकृदभिव्यक्ता नान्यदापि प्रतीयते ॥ अभिव्यक्तिश्च तद्देशा यद्देशा व्यक्तिरीक्ष्यते । तस्मात् तस्मादभिव्यक्ता न देशेऽन्यत्र दृश्यते ॥ व्यक्तिसर्वगतत्वेऽपि स्वयूथ्यैः कैश्चिदाश्रिते । भविष्यत्यद्य जातायां गवि गोधीस्तथा ग्रहात् ।। जायमानैव हि व्यक्तिर्जायते प्रतियोगिनी । एक एव हि कालोऽस्या जातेः सम्बन्धजन्मनोः ।। नेह जातेः पुरास्तित्वं न च संक्रान्तिरन्यतः । किन्तु स्वहेतोः सा व्यक्तिस्तादृश्येवोपजायते ॥ 15 . 25 दृष्टम्, भूतानाश्चालेख्यगतानां कण्ठे यो गुणः स्रग्दामादिः स प्रत्येकं सर्वात्मना वर्तमान उपलब्धः।
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy