________________
आह्निकम् ]
प्रमाणप्रकरणम तदेवमेष लोकस्य व्यवहारोऽवकल्पते । विवेकेनापि वोढव्या लोकयात्राथ लोकवत् । तस्माद् विकल्पप्रतिबिम्बनस्य शब्दार्थतामाहुरपोहनाम्नः । प्रतीतिमार्गस्त्वविविच्यमानो जनस्य जातिभ्रममातनोति ।। यावांश्च कश्चिन्नियमप्रकारः प्रवर्तते जातिषु वृत्त्यवृत्योः । तावानपोहेष्वपि तुल्य एव भवत्यवस्तुत्वकृतस्तु भेदः ।। तुल्येऽपि भेदे शमने ज्वरादेः काश्चिद् यथा वौषधयः समर्थाः । सामान्यशून्या अपि तद्वदेव स्युर्व्यक्तयः कार्यविशेषयुक्ताः ॥ विशेषणादिव्यवहारक्लूप्तिः तुच्छेऽप्यपोहे न न युज्यते नः ।
अतश्च मा कारि भवद्भिरेषा जात्याकृतिव्यक्तिपदार्थचिन्ता ॥ अपोहस्य शब्दार्थत्वखण्डनारम्भः
अत्राभिधीयते । किं जात्यादेबयस्य शब्दार्थस्य असत्त्वादपोहपक्षपातः उत प्रतीतिबलादेवेति । प्रतीतिस्तावदपोहविषया भवद्भिरङ्गीकृतेति किमत्र
10
विकल्पप्रतिबिम्बनस्येति । विकल्पप्रतिबिम्बनं विकल्पाविनाभूतो ग्राह्याकारः, विकल्पप्रदर्शितो वा धर्मोत्तरपक्षे । यावांश्च कश्चिदिति । यथा निमित्तान्तरं विनैव 15 कासुचिद् व्यक्तिषु सामान्यं समवैति कासुचिन्नेति तव नियमः निमित्तान्तराभ्युपगमे अनवस्थापाताद्, एवं ममाप्यपोहे भविष्यति तत्कारिष्वेव गौरिति प्रत्यय इति । अथैकं सामान्यं विना कथमेककार्यकारित्वमेवेत्याह तुल्येऽपि भेद इति । तदुक्तम्,
ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा। दृष्टा तथैवौषधयो भिन्नत्वेऽपि न चापराः ॥ इति ।
विशेषणादिव्यवहारक्लूप्तिरिति । बुद्धिरेव नीलावच्छिन्नमुत्पलमबाह्यं बाह्यमिव संदर्शयन्त्युत्पद्यते न पुनर्बाह्यानां पदार्थानां निरंशत्वादेवंरूपता समस्ति । आदिग्रहणात् सामानाधिकरण्यपरामर्शः, तत्राप्यनेकधर्मवन्तं धर्मिणं बाह्यमिव प्रदर्शयन्ती बुद्धिरेव तथाभूतोदेति । यदाह,
संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः परमार्थतः । भिन्न रूपमभिन्नञ्च तेषु बुद्धरुपप्लवः ॥ इति ।