________________
न्यायमञ्ज
[पञ्चमम्
ननूभयथापि वस्तुविषयत्वाभावे विकल्पानां कथं वस्तुनि व्यवहाराः प्रवर्त्तन्ते, दृष्टेऽपि क्वचिद्वस्तुनि तृणादौ प्रवृत्त्यभावाद् । अर्थित्वन्तु प्रवृत्तेः कारणं कथमिति वक्तव्यम् । उच्यते । प्रवृत्तिस्तावद् दृश्यविकल्पयोरेकीकरणनिबन्धना, दृश्यदर्शनानन्तरमुत्पन्ने विकल्पे विकल्प्य तेन प्रतिपद्यते प्रमाता । दर्शनानन्तर्यविप्रलब्धस्तु दृश्यमेव गृहीतं मन्यते तदभिमानेन च प्रवर्त्तते । इदं तदेकीकरणमाहुः । दृश्यविकल्पयोर्भेदो यन्न गृह्यते न पुनभिन्नयोरभेदाध्यवसाय एकीकरणमिष्यते । दृश्याद् विभिन्नस्य विकल्पस्य शुक्तेरिव रजतस्य निर्देष्टुमशक्यत्वाद्, भेदाध्यवसाये चोभयाभावान्न भेदाध्यवसाये दर्शनमुपायो
विकल्पाविषयत्वान्न विकल्पो दृश्याविषयत्वात् । तस्माद् भेदानध्यवसायादेव 10 प्रवृत्तिः । प्राप्तिरपि दृश्यस्यैवार्थक्रियाकारिणो वस्तुनः पारम्पर्येण, तन्मूलत्वात् कार्यप्रबन्धस्य, दृश्यादर्शनं ततो विकल्पः, ततः प्रवृत्तिरिति ।
अर्थं हि मूलवर्तिनमुपलभ्य प्रवर्त्तमानस्तमाप्नोति । अपवरकनिहितमणिप्रसृतायां कुञ्चिकाविवरनिर्गतायामिव प्रभायां मणिबुद्धया प्रवर्त्तमानः । यत्र
तु मूलेऽप्यर्थो नास्ति तत्र व्यामोहात् प्रवर्त्तमानो विप्रलभ्यते, दीपप्रभाया15 मिव तथैव मणिबुद्धया प्रवत्त मानः । एवञ्च बाह्यवस्तुसंस्पर्शशून्येष्वपि
विकल्पेषु समुल्लसितेषु बाह्योऽर्थो मया प्रतिपन्नः, तत्र चाहं प्रवृत्तः, स च मया प्राप्तः इत्यभिमानो भवति लौकिकानाम् । न त्वयमर्थाध्यवसायमूल: । तदुक्त “यथाध्यवसायमतत्त्वाद् यथातत्त्वञ्चानध्यवसायात्” इति, स्वप्रति
भासेऽनर्थेऽर्थाध्यवसायात् प्रवृत्तिरित्यत्रापि ग्रन्थेऽर्थाध्यवसायो भेदानध्यवसाय 20 एव व्याख्येयः । एवं दृश्यविकल्पावर्थावेकीकृत्य प्रवर्तते, प्राप्नोति
चार्थमिति ।
ननूभयथापीति । यत् पूर्वमुक्तमारोपिताकारविषयत्वम्, यच्च 'अपि च' इत्यादिनोक्तं तेनापि । अथ वा बुद्धयाकारापोहपक्षे आरोपिताकारापोहपक्षे चेति।
यथाध्यवसायमिति । अबहोरूपस्य बहीरूपतयाध्यवसायाद् अबहोरूपस्याबहीरूप25 तयानध्यवसायाच्च ।
स्वप्रतिभास इति । प्रतिभासत इति प्रतिभासो ग्राह्याकारस्तस्मिन् स्वस्मिन्नात्मीये विकल्पसम्बन्धिनि ।