________________
२६७
आह्निकम् ]
प्रमेयप्रकरणम् लक्षणमपि तदतिव्यापकम्, रूपरसादिसमवायस्य वृक्षादावपि भावात् । तस्मात् तदर्थाश्रयत्वमीदृशमत्र विवक्षितम्, यदेते वरवनितादिशरीरवर्तिनः, प्रविकचमुचुकुन्दकुन्दकन्दलकमलादिबाह्यविषयसमवायिनश्च रूपरसादयोऽर्था रमणीयतामादधाना रागवृद्विहेतवो भवन्ति भोक्तुरात्मनः शरीरे सति, न शरीररहितस्य, इत्यर्थानां भोगसाधनभावादाश्रयः शरीरमतः सूष्ठूक्तं चेष्टेन्द्रियार्था- 5 श्रयः शरीरमिति । तदित्थं भोगायतनत्वेन बन्धहेतुत्वाद्धेयमित्यर्थः । शरीरपरीक्षाप्रयोजनवर्णनम्
तदिदानीमस्मदादिशरीरं किं पार्थिवमेव, किं वा नानाभूतनिर्मितमिति परीक्ष्यते । ननु किमनया परीक्षया प्रयोजनम् ?
निःश्रेयसोपयोगो हि यः शरीरस्य दर्शितः ।
नानकप्रकृतित्वे हि न स तस्य विशिष्यते ।। मैवं वोचः,
प्रतिपन्नस्वरूपस्य चिन्त्याकारोपयोगिता। .
कार्यः कार्यार्थिनाप्यादौ यत्नस्तद्रूपनिर्णये ॥ तथा चेन्द्रियाणि भौतिकत्वाहङ्कारिकत्वविवेकेन परीक्षिष्यन्ते । अर्था ।। अपि कति किंगुणा इति। बुद्धिरपि किं प्रधानस्य प्रथमो विकारो महच्छब्दवाच्य उतात्मन एव धर्मो ज्ञानाख्यः क्षणिक इत्येवं द्रष्टव्यम् । तत्र विप्रतिपत्तयः
तत्र पार्थिवमेवास्मदादिशरीरमिति केचित्, साधारणो हि धरणिधर्मो गन्धस्तस्मिन्नुपलभ्यत इति ।
- 20 पृथिव्युदककारणमित्यन्ये, क्लेदस्यापि तस्मिन् दर्शनात्, असति हि सलिलसंसर्गे न पार्थिवाः क्लेदमनुभवन्तीति ।
क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलम्भादिति ।
वसुमतीसलिलसितेतरसरणिसमीरणरचितमिति चान्ये, रचनाविशेषस्य 25 सितेतरसरणिः अग्निः।