________________
२६६
[ सप्तमम्
न्यायमञ्जन्तर्गतमण्डकादिशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिः ? न, योग्यतायास्तत्रापि भावात् । सत्यामपि क्रियायोग्यतायां सर्वतो निर्विवरनिचितदृषत्कर्परोपरुद्धावकाशतया चलितुमसौ न प्रभवति भेको वराकः, तथा च स्फुटिते तस्मिन्नेवाश्मनि तत्क्षणमेवासौ चलन् दृश्यत इति निबिडपाशसंयतशरीरवत् तदानीं चेष्टाया अदर्शनेऽपि नाव्याप्तिः ।। मुमुक्षूणां शरीरमेवात्र लक्ष्यभूतमिति मनिरसनम्
मुमुक्षुशरीरमेव लक्ष्यमित्येके, तेन न मण्डूकशरीरादिभिरव्याप्तिरलक्षणीयत्वात् तेषामिति, तदयुक्तम् । नियतस्य मुमुक्षूणां शरीरस्याभावात्, तादंशि च भेकादिशरीराणि नितरां निर्वेदकारीणि भवन्ति । मुमुक्षुरपि च कर्मविपाकमनेकप्रकारमाकलयन् मण्डूकीभावमात्मनोऽपि न शङ्कते । प्रत्यासन्नापवर्गपुरप्रवेशं विपश्चित्तममपश्चिमजन्मानं मुमुक्षु प्रति लक्षणाद्युपदेश एव क्वोपयुज्यते, इत्यतः पूर्वोक्त एवाव्याप्तिपरिहारः श्रेयान् । शरीरस्येन्द्रियाश्रयत्वे शङ्कासमाधाने
भवत्वेवं चेष्टाश्रयत्वं शरीरलक्षणम्, इन्द्रियाश्रयत्वन्तु कथम् ? 15 भौतिकानि हीन्द्रियाणि स्वावयवसमाश्रितानि, घ्राणनयनस्पर्शनरसनानि, श्रोत्रमनसी तु नित्यद्रव्यत्वादनाश्रित एवेति कथमिन्द्रियाश्रयता शरीरस्येति ।
उच्यते । नात्राधाराधेयभाव आश्रयार्थः, किन्तु तदनुग्राह्यत्वात् तदाश्रितानीन्द्रियाण्युच्यन्ते,देशकालदशानुकूलपथ्यभोजनाभ्यङ्गव्यायाममर्दनाभ्युपचारोपचितशरीरस्य हि पुंसः पटुतराणि स्वविषयपुरन्ध्रिग्रहणे भवन्तीन्द्रियाणि दीर्घावलङ्घनकदशनशुष्कजरत्सचन्द्र(?)सेवनादिक्लिष्टशरीरस्य हि पुंसो मन्दशक्तीनि भवन्तीति तदनुग्राहकत्वादिन्द्रियाणमाश्रयः शरीरम् ।
__ अर्थानान्तु रूपरसगन्धादीनां केषाञ्चिदाश्रयः शरीरं भवत्येव तत्समवायिनाम्, न तु तावता किञ्चिद् भोगायतनत्वोपयोगि रूपमभिहितं भवति ।
नियतस्य मुमुक्षुशरीरस्याभावात् कर्मविपाकवशात् कदाचिद् मण्डूकादिशरीरोऽ25 प्यसो भवेदित्यर्थः।