SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] भ्रष्टः शापेन देव्याः शिवपुरवसतेर्वन्द्यहं मन्दभाग्यो भाव्यं वा जन्मना मे यदि मलकलिले मर्त्यलोके सशोके । स्निग्धाभिर्दुग्धधारामलमधुरसुधाविन्दुनिष्यन्दिनीभिः कामं जायेय वैयाकरणभणितिभिस्तूर्णमापूर्णकर्णः । एवं व्याकरणाभियोगसुलभप्रौढोक्तिभिः पण्डितैरक्लेशेन विचित्रवैदिकपदव्युत्पत्तिरासाद्यते । अन्यैरप्युपबृंहिते दृढतरासङ्गैर्निरुक्तादिभिर्वेदे स्वार्थधियं वितन्वति कुतः प्रामाण्यभङ्गो भवेत् ॥ अङ्गभावनिरपेक्षयैव नः प्रत्ययो यदिह शब्दविद्यया । वैदिकार्थविषयो विधीयते तत् परास्तमितरेतराश्रयम् ॥ आदृतमस्खलितव्यवहारैर्भोगिमतश्रुतसङ्गिभिरायें । व्याकरणं कथमेतदनादि प्राकृतलक्षणतौल्यमुपेयात् ।। एतेनागमप्रामाण्यं सिद्धम् प्रमाणप्रकरणं एवं मृषात्वमुदगीयत येन येनच्छिद्रेण कल्पितपिशाचरवैरनार्यैः । तत्तत्समग्रमपसारितमित्यतश्च प्रामाण्यमप्रतिहतं स्थितमागमानाम् ॥ १९७ दुग्धधारेति दुग्धधारावदमला मधुराश्च तथा सुधाबिन्दुनिष्यन्दिन्यस्तु याः । तत् कुतस्त्यमितरेतराश्रयमिति । सति वेदाङ्गत्वेन व्याकरणात् प्रमाणभूतादर्थनिश्चये वेदस्याप्रतिपादकत्वाभावात् । प्रामाण्यम्, सति च तत्प्रामाण्ये तदङ्गत्वेन व्याकरणप्रामाण्यमिति यदितरेतराश्रयं तत् कुतस्त्यम् । भोगिमतश्रुतसङ्गिभिः । भोगी शेषः, तन्मतं महाभाष्यं तच्छ्रुतेन सङ्गशीला ये भर्तृहरिप्रभृतय आर्या इति भद्रम् । भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे षष्ठमाह्निकं समाप्तम् ॥ ॐ ॥ जयत्येकशराघातविदारितपुरत्रयः । धनुर्धराणां धौरेयः पिनाकी भुवनत्रये ॥ 10 15 20 25
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy