________________
न्यायमञ्ज
[षष्ठम् बार्हस्पत्यमपि सूत्रमसूत्रमेवेत्यलं स्वमनीषिकाकल्पितानल्पविकल्पाडम्बरोत्तम्भितालीकपाण्डित्यगर्वगलग्रहगद्गदगिरामुद्वेगकारिणानेन वस्तुविचारेण, सर्वथा प्रकृतिनिर्मलमत्युदारं व्याकरणाडम्बरमेवंप्रायैः परिवाद
पांसुपातैर्न मनागपि दूरीकर्तुं पार्यत इति सिद्धम् । 5 स्वमते व्याकरणस्यावश्याध्येयत्वम्
तस्मात् पवित्रात् सर्वस्मात् पवित्रं जनबहुमतमधिगतचतुर्वर्गमग्राम्यमात्मानं कर्तुमध्येतव्यं व्याकरणम् । आह,
आपः पवित्रं परमं पृथिव्या अभ्यः पवित्रं परमं हि मन्त्राः । तेषाञ्च सामय॑जुषां पवित्रं महर्षयो व्याकरणं निराहुः ।। इहाप्युक्तम्,
रूपान्तरेण देवास्ते विहरन्ति महीतले । ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥
10
किञ्च,
वरं हि जातास्तिमयो गभीरे जलाशये पङ्किनि नित्यमूकाः । न मानवा व्याकरणप्रयोगप्रबुद्धसंस्कारविहीनवाचः ॥ मनुना च पङ्क्तिपावनत्वेनाधिगतव्याकरणो मीमांसकश्च स्वस्मृतौ पठितौ 'यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्' इति । पुष्पदन्तोऽ
प्याह,
परिपन्थ्यादीनां काव्यादिषु पञ्चसु प्रभेदेषु प्रयोगप्रतिषेधार्थो न सर्वत्र । स्मृतिसन्देहोऽपि न कश्चित् । त्वामनुकरोतीत्यत्रार्थदृशेस्तत्र प्रयोगात्; अनुकृतिलक्षणश्चार्थो धात्वर्थ एवेति नास्ति कश्चित् सन्देहः । अप्रतिपादकत्वञ्च नास्ति, गत्यर्थादिसूत्रस्य प्रत्याख्यानानश्रयणादिति ।
बार्हस्पत्यसूत्रमसूत्रमेव प्रमाणविरुद्धार्थसूचनादसूत्रपदतुल्यमित्यर्थः । तिमयो मत्स्यविशेषाः।