________________
१९४ न्यायमञ्ज
[ षष्ठम् एतेनेतरेतराश्रयत्वमपि प्रत्युक्तम्, न हि शिष्टेभ्यो व्याकरणस्य प्रभव इति ।
यत्तु शिष्टानामपि प्रमादित्वमुपवणितं किल पुराणैर्मुनिभिरपि बहुभिरपशब्दाः प्रयुक्ता इति, तत्राभियुक्तैस्तदपनयनमार्गः प्रदर्शित एव । स तु ग्रन्थविस्तरत्रासादिह न प्रतन्यते।
. यदपि पाणिनितन्त्रे धातुप्रातिपदिककारकाद्यनुशासनविसंष्ठुलत्वमनेकशाखमाख्यापितं तदपि निपुणमतिभिः प्रतिसमाहितमेव । न च तेषामपि दोषोत्प्रेक्षणसम्भवादनवस्था निपुणदर्शितमार्गे विप्लवकारिवैतण्डिकतस्करविकासानुपपत्तेः ।
इतरेतराश्रयत्वमपि । व्याकरणात् साधुत्वपरिज्ञाने सति तत्प्रयोक्तृणां शिष्टत्वम्, 10 सति च शिष्टप्रयोगे व्याकरणस्य प्रामाण्यमितीतरेतराश्रयत्वम् ।
तदपनयनमार्गः प्रदर्शित इति । तत्र मन्वादिवचनानि तावच्छान्दसरूपसिद्धया सिद्धयन्ति 'वेदविद्वचः' इति वचनात् । 'जनिकर्तुः' 'तत्प्रयोजकः' इति च निपातनात् सिद्धयति । तत एव ज्ञापकात् 'जातिवाचकत्वात्' इति च सिद्धम् । 'आन्यभाव्यम्'
इत्यगुणवचनत्वेऽपि ब्राह्मणादिपाठात् ष्यन् । 'अविरविकन्यायेन' इत्यत्र तु यथा अविः 15 अविशब्दः अविकन्यायेन अविकमुखेन प्रत्ययमुत्पादयतीति भिन्नपदत्वेन व्याख्येयम् ।
'अन्यथाकृत्वा चोदितम्' इत्यत्र च सिद्धाप्रयोगत्वस्याविवक्षया णमुल कृतः। भाष्यकारवचनाद्वा सिद्धाप्रयोगत्वेऽपि साधुरेवायमित्येके ।
निपुणमतिभिः प्रतिसमाहितमेवेति। भर्तृहरिप्रभृतिभिर्हि तथा तद् व्याख्यातं यथा तेषां दूषणानामवकाश एव न भवतीति । तथाहि यत्तावच्चोदितं 'क्रियावचनत्वे20 ऽस्तिभवत्यादीनां धातुसंज्ञा न प्राप्नोति' इति, तत्तत्रैव प्रतिसमाहितम् । नात्र लौकिक्याः
क्रियायाः परिस्पन्दस्वभावाया धातुभ्यः प्रतोतिर्विवक्षिता, येनास्यादीनां धातुसंज्ञा न भवेदपि तु शब्दार्थभूतायाः। तथाहि कारकव्यापारविषयीकृतोऽर्थः क्रियेति क्रियाशब्दार्थः । एतदेव भाष्यकृता 'कारकाणां प्रवृत्तिविशेषः क्रिया' इति वदता प्रदर्शितम् ।
तदेवं कारकप्रवृत्तिविषयः पूर्वापरीभूतोऽर्थः क्रियेति विवक्षायामस्त्याद्यर्थस्य साधनाय 25 व्यापारविषयत्वेन पूर्वापरीभूतस्य शब्देनाभिधानात् क्रियारूपता। तथाहि अस्ति
आत्मानं बिभर्तीति गम्यते पूर्वापरीभावस्तदुक्तम्,