________________
१९३
आह्निकम् ]
प्रमाणप्रकरणम् नादयः प्रजापतिनिर्मिता वेत्येवमपर्यनुयोज्या एव । अत एव वेदैस्तदङ्गश्च सह चतुर्दश विद्यास्थानानि गण्यन्ते,
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ।
पुराणं धर्मशास्त्राणि विद्या ह्येताश्चतुर्दश ॥ इति । येऽपि शब्दसंस्कारादिविकल्पाः कृताः, तेऽपि बहुभाषित्वयोगमात्र- 5 निर्मिता एव न वस्तुस्पृशः । के वा तद्विपरीताः कश्च तेषां संस्कार इति ? न चैतावता शिष्टप्रयोगमूलमेव व्याकरणं ब्रूमो वेदवद् अनादित्वस्य दर्शितत्वाद् । अन्धपरम्पराप्रसक्तदोषपरिजिहीर्षया तु शिष्टप्रयोगमलत्वमभिधीयते, वैदिकस्मृतेरिवान्वयव्यतिरेकमूलत्वम् । ये हि व्याकरणस्मृतौ साधव इत्यनुशास्यन्ते शब्दास्ते शिष्टैस्तथैव प्रयुज्यमाना दृश्यन्ते हरीतकीभक्षणादिवारोग्यम्, न तु 10 शिष्टेभ्यः शब्दसमाम्नायमधिगम्य पाणिनिर्ग्रन्थं कृतवान्, न चान्वयव्यतिरेकाभ्यां द्रव्यशक्तीरवगत्य चरकं प्रणीतवानिति शिष्टानामनादित्वाभिधानात् ।
शब्दसंस्कारादिविकल्पा इति । बहुभाषित्वादित्यनेन भट्टं सूचयति, स हि बहुभाषित्वेन प्रसिद्धः । तथा च,
भट्टस्य तस्य बहुभाषणलब्धकीर्ते
दिङ्नागदूषणमिदं न तु धर्मकीर्तेः ॥ इति । • तमेवं प्रतिपादयन्ति । तथा चाह सः,
संस्कृतानाञ्च शब्दानां साधुत्वे परिकल्पिते । वक्तव्यः कस्य संस्कारः कथं वा क्रियते पुनः ॥ न तावदस्ति शब्दत्ववर्णत्वव्यक्तिसंस्क्रिया। सर्वत्रातिप्रसङ्गेन न व्यवस्था हि सिद्धयति ।। शब्दत्वे संस्कृते स्याद्धि ध्वनीनामपि साधुता । वर्णत्वेऽप्येकवर्णानां गाव्यादीनाञ्च तुल्यता । गवादिषु गकारादिर्यः सकृत् संस्कृतः क्वचित् ।
गाव्यादिषु स एवेति साधुरेव प्रसज्यते ॥ इत्यादि। न्या० म० २५