________________
१८२ न्यायमञ्ज
[ षष्ठम् ___अथैकार्थतया समानशीलस्य वाक्यस्यैव प्रतिषेधे प्रभवति समासग्रहणं न धातुप्रत्यययोरपि, तदपि दुराशामात्रम् । वाक्यसमासयोरपि 'वा' वचनानर्थक्यकथनेन सार्थशक्त्यव्यवस्थापनादिति ।
तदेवं प्रातिपदिकसंज्ञाविषयस्य निश्चयात् तत्प्रकृतिकानां झ्याप्प्राति5 पदिकादित्यधिकृत्य स्वादिप्रत्ययानां विधानमनुपपन्नमित्यलं प्रसङ्गेन । सर्वथा दुर्व्यवस्थितं शब्दानुशासनम् ।
यश्च व्याख्यातॄणामुक्तानुक्तदुरुक्तनिरीक्षणप्रयत्नः, यश्च वा-च-क-मात्रावर्णाधिक्यमिषपुरःसरलक्षणपरिचोदनप्रकारः, यच्चेदं व्याख्यातृवचनमिह न भवत्यनभिधानादिति, यच्च व्याप्तिसिद्धौ सरलमुपायमपश्यतामाकृतिगुणवर्णनम्, यच्च पदे बहुलवचनं तत् सुतरामपरिशुद्धिमनुशासनस्य दर्शयतीति ।
अन्ये तु शोभेति चीर्णमिति न याति वाक्यं प्रतिभेत्तुमिति
अथैकार्थतया समानशीलस्येति । य एव राज्ञः पुरुष इत्यस्य वाक्यस्यार्थः स एव राजपुरुष इति समासस्येति । 'वा' वचनानर्थक्यमिति । विभाषेति समासविधौ यो
महाविभाषाधिकारः, स वात्तिककृता प्रत्याख्यातः “वा'वचनानर्थक्यं स्वभावसिद्धत्वात्" 15 इत्यनेन । किल तदेतदर्थं क्रियते पक्षे वाक्यमपि यथा स्यादिति । तच्च न वक्तव्यम् । यदि
हि वाक्यस्य समासस्य चैकार्थ्यं स्यात् तदानीं साधुत्वेनान्वाख्यातुः समासो वाक्यं निवर्तयेद् गोशब्द इव साधुत्वेनान्वाख्यातो गावीशब्दम् , तेन पक्षे प्रयोगार्थं तत्करणं शोभते। यदा तु वाक्यस्य व्यपेक्षार्थः 'राज्ञः कः पुरुषः, कस्य पुरुषो राज्ञः' इत्येवंरूपो राजपुरुषशब्दस्य चैक एव लोलीभूतोऽर्थस्तदा भिन्नार्थेन राजपुरुषशब्देनाश्वशब्देनेव गावीशब्दवत् कथं निवर्तयितुं शक्येत, येन पक्षे श्रवणाय विभाषारम्भः सफलः स्यादत उक्तम्, स्वभावसिद्धत्वादिति । तदिदमत्र तात्पर्यम् । व्यपेक्षायां समासो न भवत्येकार्थोभावे च वाक्यम् । तेन विभक्तविषयादनयोर्बाध्यबाधकभावो न भविष्यति । अतो नार्थो विकल्पप्रतिपादनेन । एकार्थानां हि विकल्पो भवति, एकार्थता चेह नास्तीति।
___ अन्ये तु शोभा चीर्णमिति । तत्र शोभेत्यत्र स्त्रियामाकारप्रत्ययस्याभिधानाभावादसाधुता अङि तु शुभेति स्यात् । चीर्णमित्यत्र प्राप्तस्य इटः अकरणमप्राप्तस्य च ईत्वस्य करणम् । न याति वाक्यं प्रतिभेत्तुम् इत्यत्र च यातिशब्दे उपपदे तुमुन्-प्रत्ययः, न