________________
१८१
आह्निकम् ]
प्रमाण प्रकरणम् विधानमपि प्रत्युक्तम् । अपादाने पञ्चमी, सप्तम्यधिकरणे इत्यादिविषयनिरूपणपूर्वकत्वात् तद्विधानस्येति ।
किञ्च, यद्यपि तद्धितसमासानुशासनं तत्सामर्थ्य नियमपूर्वकं समर्थानां प्रथमाद् वा “समर्थः पदविधि'' इति परिभाषणात्, तदत्रापि वक्तव्यम् । सामर्थ्य नाम किमुच्यत इति । एकार्थान्वयित्वमिति चेत्, कुतोऽवगम्यते ? तद्धित- 5 समासप्रयोगप्रतिपत्तिभ्यामेवेति चेत् तहि तद्धितसमासप्रयोगप्रतिपत्त्योः सामर्थ्यावगमः, सामर्थ्य सति तयोः प्रवृत्तिरितीतरेतराश्रयत्वम् ।
अपि च सामर्थ्यमन्तरेणापि क्वचित् प्रयुञ्जते समासम्, अश्राद्धभोजी दधिघटो गोरथ इति । तथासत्यपि सामर्थ्य तद्धितप्रयोगाः परिदृश्यन्ते, अङगुल्या खनति आङ्गुलिको वृक्षालादागतो वार्भमलिक इति न वक्तारो 10 भवन्तीति । एतदप्यसमञ्जसमनुशासनम् ।
तथा “अर्थवदधातुरप्रत्ययः प्रातिपदिकम्' इति संज्ञालक्षणमतिव्यापकम्, वाक्यस्यापि प्रातिपदिकसंज्ञाप्रसङ्गात् ।
अथ "कृत्तद्धितसमासाश्च'' इति सूत्रान्तरे समासग्रहणं विशेषविधित्वेन वर्ण्यमानं तदितरवाक्यप्रतिषेधाय भवतीति ततो वाक्यनिवृत्तिः सेत्स्यति । 15 यद्येवम्, अधातुरप्रत्यय इति न वक्तव्यं धातुप्रत्यययोरपि तत एव प्रतिषेधसिद्धेः ।
. एकार्थान्वयित्वमिति । एकार्थावस्थायित्वमेकार्थीभावः, यत्र पदान्युपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थोपादानाद् द्वयर्थानि भवन्ति, अर्थान्तराभिधायोनि वा स एकार्थीभावः । प्रयोगप्रतिपत्तिभ्यामिति। तादृशेऽर्थे प्रयोगात् तादृशस्य चार्थस्य 20 ततः प्रतीतेरिति ।
अश्राद्धभोजीति । अत्र नत्रो भुजिना सम्बन्धो न श्राद्धशब्देन इत्यसामर्थ्यम् ; 'दधिघटः' इत्यत्र च पूर्णशब्दप्रयोगं विना सामर्थ्याभावः । 'गोरथः' इति । अत्र च युक्तशब्दं विना।
तयोरपि तत एव प्रतिषेधसिद्धेरिति । यथा अर्थप्रतिपादने परस्परापेक्षस्य 25 पदसमुदायात्मनो वाक्यस्य समासपदान्निवृत्तिः, एवं धातोरर्थप्रतिपादने प्रत्ययापेक्षस्य, प्रत्ययस्य चार्थप्रतिपादने प्रकृत्यपेक्षस्य तत एव निवृत्तिः सेत्स्यतीति ।