________________
आह्निकम् ] प्रमाणप्रकरणम्
१५३ तत्कार्यभेदस्य दर्शितत्वात् । तदित्थं न प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते सन्निहितयोग्याकाङ्क्षितार्थोपरक्तस्वार्थाभिधेयत्वेन हि क्वचिद् गृहीतः सम्बन्धः सर्वत्र गृहीतो भवति । ततश्च नवकविश्लोकादप्यर्थप्रतिपत्तिरुत्पत्स्यते । पदपदार्थयोस्तु न व्युत्पत्तिरुपायाभावादित्युक्तम् ।
यदपि पदान्तरोच्चारणमफलमिति, तदपि परिहृतम् । पदान्तरसन्निधाने 5 हि सर्वाणि पदानि कृत्स्नकारीणि भवन्तीत्युक्तत्वात् । किं पदान्तरसन्निधानेन क्रियत इति चेत्, सर्वकारकेष्वपि तुल्योऽयमनुयोगः । संहत्य तु सर्वाणि कुर्वन्ति कारकाणीत्युच्यन्ते तथा पदान्यपि अर्थाभिधाने, नअपि चोपकुर्वत्सु पदेषु नाभिहितान्वयोऽनन्वितार्थे व्युत्पत्त्यभावात्, अनुपगमे वा दुरुपपादः पदार्थानामन्वय उपायाभावात् ।
10 नन्वाकाङ्क्षासन्निधियोग्यत्वान्यभ्युपाय इत्युक्तम् । न युक्तमुक्तम् । कस्येयमाकाङ्क्षा शब्दस्यार्थस्य प्रमातुर्वा? शब्दार्थयोस्तावदचेतनत्वान्नाकाङ्क्षायोगः। फलत इयं तत्र तत्र वाचोयुक्तिः, शब्दः शब्दान्तरमाकाङ्क्षत्यर्थोऽर्थान्तरमिति । प्रमातुः पुनः स्वतन्त्रस्याकाङ्क्षा न प्रमाणम्, पुरुषेच्छया वस्तुस्थितेरघटमानत्वात् । शब्दाख्यप्रमाणपृष्ठ भावेन तु पुरुषस्याकाङ्क्षा भवन्ती भवत्यर्थानां 15 संसर्गहेतुरित्येवं शब्दस्यायमियानिषोरिव दीर्घदीर्घो व्यापारः। उपरतव्यापारे तु शब्दे पुरुषाकाङ्क्षामात्रं न सम्बन्धकारणम् ।।
अशाब्दत्वञ्च वाक्यार्थप्रतीतेरित्थमापतेत् ।
व्यवधानमयुक्तञ्च साक्षाच्छाब्दत्वसम्भवे ।। तस्मादन्विताभिधायीनि पदानीति स्थितम् । एष एव हि संसर्गपन्थाः । 20
व्यतिषक्तार्थबुद्धया हि व्यतिषङ्गोऽवगम्यते । अपरन्तु न संसर्गप्रतीतेरस्ति कारणम् ।। न खल्वानय गां शुक्लां संसर्ग इति कथ्यते ।
व्यवहारे क्वचिद् वृद्धैः पदं संसर्गवाचकम् ॥ फलत इयं तत्र तत्रेति। पुरुषाकाङ्क्षोत्थापकत्वाच्छब्द आकाङ्क्षतीति कथ्यते। 25 शब्दाख्यप्रमाणपृष्ठेनेति । शब्देनाकाङ्क्षायोग्यानामर्थानां प्रतिपादनाच्छन्द एवाकाङ्क्षाजनकः।
न्या० म० २०