________________
१२४
न्यायमञ्ज
[ षष्ठेम
माक्षिपति । यदस्याः करणं स संस्कार इति स्मृतिरिवार्थप्रतीतिरपि तत्कार्यत्वात् तदनुमापिका भवत्येव ।
___ यत्तु, कुतस्तादृशः संस्कार उदेति ? जडप्रश्नोऽयम्, अनुभवहेतुकस्य
सुप्रसिद्धत्वात् । तथा चाह, 'वस्तुधर्मो ह्येष यदनुभवः पटीयान् स्मृति5 बीजमाधत्ते' इति ।
ननु स्मृतिबीजमिति यदुच्यते तत् कथमनुभवबीजं स्यात् ? नैष नियमः स्मृतेरेव बीजमिति । अनुभवस्तावत् तथाविधमात्मधर्ममाधत्ते । स कार्यभेदोऽपि नोत्पत्तौ कारणान्तरं मृगयते, कार्यभेदश्च तथादर्शनादवगम्यत इत्युक्तम् ।
___अथ वा किमनेन निर्बन्धनेन । साक्षादर्थप्रतीतिकारी संस्कारः स्मृतिद्वारेण 10 तां करिष्यति । पूर्ववर्णेषु संस्कारात् स्मरणमन्त्यवर्णे श्रोत्रेन्द्रियादनुभव इत्येवं
स्मर्यमाणानुभूयमानवर्णकरणकोऽर्थप्रत्ययः स्यात्, को दोषः ?
___ नन्वनुभवक्रमाहितसंस्कारसामर्थ्यमनुरुध्यमानाः स्मृतयोऽपि क्रमेणोत्पत्तुमर्हन्ति, न युगपदिति । ततश्च प्राक्तन एव दोषः सामस्त्याभावादिति । नैषदोषः, नानावर्णविषयैः क्रमभाविभिरनुभवैः क्रमोपचयात्मा पुटपाकैरिव कार्तस्वरस्यैक एवात्मनः संस्कारः तादृगुपाधीयते येन सर्वानेव पूर्वदृष्टान् वर्णानसौ सकृत् स्मरतीति । संस्कारात् संस्कारोत्पत्तिरलौकिकीति चेत्, नालौकिकी, स्वाध्यायाध्ययने सिद्धत्वात्; उच्चारणक्रियायाः क्षणिकत्वात् । तदाहिते संस्कारान्तरकारिणि संस्कारेऽनिष्यमाणेऽन्त्यमुच्चारणं प्रथमोच्चारणान्न विशिष्येत, ततः किं पुरुषायुषेणापि नानुवाक एव आमुखीक्रियेत ?
नन्वयमीदृशः प्रकार एकस्मरणसिद्धये कल्पनीयः, अर्थप्रतीतिहेतुता वा संस्कारस्य कल्पनीयेति । सर्वथेयमदृष्टकल्पना अतो न पश्यामहे तत्र कः संस्कारं प्रति पक्षपातः, कश्च स्फोटं प्रति विद्वेषः, यदेष कल्प्यते, नैष इति । उक्तमत्र तेनैव सुगृहीतनाम्ना भाष्यकारेण "शब्दकल्पनायां सा च शब्दकल्पना च” इति ।
ननु नास्ति कल्पनाद्वैगुण्यम्, संस्कारो हि यथाप्रसिद्धिः स्थित एव, का तत् कल्पना ? न हि वयं स्मरणैककारणत्वं संस्कारधर्ममतिलचितवन्तो भवन्त इव । कथं न लचितवन्तो भवन्तः ? सर्ववर्णविषयकस्मरणकारिता भवद्भिरपि