________________
आह्निकम् ]
प्रमाणप्रकरणम्
१२३
पूर्वोत्पन्नैकैक वर्ण बुद्धिनिर्विशेष एव स्यादिति तदुपारूढा अपि वर्णानार्थप्रतीतिहेतवो भवेयुः ? यदि त्वेकसुमनस्स्तबकाकारावभासी स प्रत्ययः तदा तस्मिन् क्रमानवगमाद् विपरीतक्रमा अपि ते वर्णा अर्थप्रतीतिकारिणः स्युः ।
उच्यते, विशिष्टानुपूर्वीकवर्णमालानुभवसमनन्तरभावी हि सङ्कलनाप्रत्ययोऽर्थं प्रतीतेर्हेतु:, न स्तबकाकारपरिच्छेदमात्रम्, विपरीतक्रमाशङ्कनञ्च तदानों कुतस्त्यम् ? स्तबकावभासे तावत् क्रम एव नास्ति, कस्य वैपरीत्यमवैपरौत्यं वा ? यदनन्तरजन्मायं समुच्चयप्रत्ययस्ताश्च तद्विशिष्टक्रमावभासिन्य एव पूर्वभाविन्यो वर्णबुद्धय इति कुतो वैपरीत्यविकल्पः ? तस्मात् प्रथमावगमनियतानुपूर्वीकास्ते तदनन्तरभाविसमस्तावभासिसङ्कलनाप्रत्ययोपारूढा वर्णा अर्थप्रतीतिकारिण इति न दोषः ।
10
यथा “पूर्ववर्णजनितसंस्कारसहितोऽन्त्यवर्णः" इति तत्रभवता मीमांसाभाष्यकृता वर्णितं तथा वा वर्णानामर्थप्रत्यायकत्वमस्तु ।
नन्वत्रोक्तं संस्कारस्यार्थप्रतीतिजनकत्वं न दृष्टपूर्वम्, स्मृतावेव तस्य व्यापार इति । किमियं राजाज्ञा, स्मृतिरेव संस्कारेण कर्तव्येति ? नेयं राजाज्ञा नयाज्ञा त्वेषा । न हि संस्कारो नाम स्वतन्त्रः कोऽपि धर्मी, किन्तु पट्वभ्यासादरप्रत्ययगृहीतेष्वर्थेषु यदात्मन: स्मरणकारणं स संस्कारः । सा च स्मृत्यैव कार्येण कल्प्यमाना शक्तिः । न च शक्तिरूपस्य संस्कारस्य शक्त्यन्तरमर्थ - प्रतीतिजन्मनि सम्भवति । येनैव कार्येण सा कल्प्यते शक्तिस्तदपहाय किं कार्यान्तरं कुर्यात् ? स्मरणहेतोश्च संस्कारस्य प्रसवकारणमनुभवः। अनुभवहेतोस्त्वस्य नूतनचरितस्य संस्कारस्य जन्मनिमित्तमेव नोत्पश्यामः । तस्मान्नासावर्थप्रतीतिहेतुर्भवति ।
20
15
नैतत्सारम्, वर्णानुभवसंस्कृतमतेः पुंसोऽर्यप्रतीतिदर्शनात् । न हि स्मरणशक्तिः संस्कारः, किन्त्वात्मगुणो वासनाख्यः । स च स्मृतिमिवार्थप्रतीतिमपि जनयितुमुत्सहते । सर्वत्र नो दर्शनं प्रमाणम्, स्मरणजननकौशलमपि तस्य तथादर्शनादवगम्यते, तदिदमनुभवजननमपि ततो दृश्यत एव । वर्णाश्च तदनु- 25 भवाश्च व्यतीताः । अन्यच्च शब्दतत्त्वं नानुभूयत इति वक्ष्यामः । अस्ति चार्थप्रतीतिर्नासौ निष्करणिका, करणव्यतिरेकेण हि सा अनुद्भवन्ती करण