________________
११९
आह्निकम् ]
प्रमाणप्रकरणम् केवलं बुद्धयुपादाना क्रमरूपानुपातिनी ।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ।। इति । या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशसंविद्रूपा वाक्, सा पश्यन्तीत्युच्यते । तदुक्तम्,
___ अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥ इति । तदलमतिप्रसक्तानुप्रसक्त्या, द्राघीयसी चर्चेयं प्रकृतान्तरायकारिणीति न प्रतन्यते । इह त्वेतावतैव पुनः प्रयोजनम्, वर्णपदपूर्वको व्यवहारो न भवतीति । वाक्येन लोके व्यवहारात् तस्य चावयवावयविव्यवस्थानुपपत्तेनिर्भागमेव तद् वाचकम्, निर्भागश्च तस्य वाच्योऽर्थ इति । अवान्तरवाक्यमपि प्रयोगयोग्यं 10 व्यवहारकारणमिति तन्न नियते । अविद्यावस्थेयं वर्तते तत्रेयं व्यवहारवर्तनी।
5
बहिः श्रोत्रेणापि सा मध्यमा । क्रमरूपानुपातिनी । वैखर्यास्तत्कार्यत्वात् तदवस्थाभाविनः क्रमस्यानुकारानुवर्तिनी । यादृशी मूर्तिरालेखयितव्या तथाविधैव बुद्धिस्था निरूप्यते । एवं च स्थूलोऽपि शब्दः प्रथमं बुद्धौ निवेश्यः सक्रमश्चासौ, बुद्धिनिविष्टत्वमेव मध्यमत्वम् । एवं च वैखरीधर्मस्य क्रमस्यात्मसन्निवेशलक्षणस्य च पश्यन्तीधर्मस्यानुगमादुभयोर्वाग्धर्म- 15 योर्मध्ये भावान्मध्यमात्वम् । प्राणवृत्तिमिति । प्राणस्य प्राणाख्यस्य वायोक्पारं हि स्वरूपनिष्पत्तयेऽतिक्रम्यावधीर्य प्रवर्तते सा। ____ अविभागा तु पश्यन्ती । अविभागा अविद्यमानभेदा, विवक्षाया अभावात् । सर्वतः स्वात्मनो विषयाच्च संहृतस्तिरोधापितः क्रमो यया, तदवस्थयोर्वाच्यवाचकयोरुभयोरपि क्रमस्याप्रतिभासनात् । स्वात्मैव ज्योतिः प्रकाशोऽस्या न पुनर्वैखरीवत् परसंवेद्यापि। 20 सूक्ष्मा ज्ञेयेनार्थेनासम्भिन्नाकारा ज्ञानप्रतिलीनाकारा वा । अत एवोद्भूतेन ज्ञानात्मनारूपेण पश्यति शब्दतत्त्वं न विवक्षयोपादत्त इति व्यापाराश्रयया सज्ञया ज्ञानानुस्यूता शब्दावस्था मध्यमावस्थायाः कारणमुक्ता। अनपायिनी च सा विषयापगमेऽपि चिदवस्थाया अविचलनादिति ।
अथ तस्यां तथाविधायामवस्थायां शब्दरूपानुगमे किं प्रमाणमिति तदाह 25 अलमतिप्रसक्तेति । तस्य चावयव(वि?)व्यवस्थानुपपत्तेरिति । यथा प्रतिपादितम् 'काले नदन्ति नागाः' इत्यत्र ।