________________
न्यायमञ्जा
[ पञ्चमम् वाक्यार्थनिरूपणे प्रकरणसङ्गतिचिन्ता आह,
परपक्षं प्रतिक्षिप्य प्रेरकं कथितं फलम् ।
एवं परमतद्विष्टैक्यिार्थः स्वयमुच्यताम् ॥ उच्यते । 'यमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम्' इति वदता सूत्रकृता फलं प्रवर्तकमिति प्रदर्शितम् । “प्रमाणेनायं खलु ज्ञाता अर्थमुपलभ्य तमीप्सति जिहासति वा । तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरुच्यते । सामर्थ्यं पुनरस्याः फलेनाभिसम्बन्धः' इति च ब्रुवाणो भाष्यकारोऽपि फलेप्सां प्रवर्तिकां प्रादीदृशदिति तदीयां सरणिमनुसरद्भिरस्माभिरपि तथैव तत् कथितम् ।
वाक्यार्थस्तु न क्वचिदपि सूत्रकारभाष्यकाराभ्यां सूचित इति चेत्, पृथक्प्रस्थाना इमा विद्याः, प्रमाणविद्या चेयमान्वीक्षिकी न वाक्यार्थ
10
विद्येति ।
यद्येवं पदार्थोऽपि कस्मादिह दर्शितः “व्यक्त्याकृतिजातयः पदार्थः" 15 इति ? स्थाने प्रश्नः । स तु शब्दानामर्थास्पर्शितां वदन्तञ्च शमयितुं शब्दप्रामाण्यसिद्धये सूत्रकृता यत्नः कृतः ।।
यद्येवं वाक्यार्थमपि बाह्यं वास्तवमन्तरेण शब्दप्रमाणता न प्रतिष्ठां लभत इति तत्रापि प्रयत्नः कर्तव्य एव । सत्यम् । पदार्थप्रतिपादनयत्नेनैव तु कृतेन तत्र यत्नं कृतं मन्यते सूत्रकारो यदयं पृथक् पदार्थेभ्यो न वाक्यार्थमुपदिशति स्म । तस्मादयमस्याशयः, पदार्थ एव वाक्यार्थ इति । तत् किममुमेव पक्षमनुमोदामहे पदार्थ एव वाक्यार्थ इति ? बाढं ब्रूमः । किञ्च नैकपदार्थो वाक्यार्थोऽनेकस्तु पदार्थो वाक्यार्थः । ___ नन्वनेकोऽपि भवन् पदार्थ एवासौ । न च पदार्थो वाक्यार्थो भवितुमर्हति ।
सामान्ये हि पदं वर्तते, विशेषे वाक्यम् । अन्यच्च सामान्यम् अन्यो विशेषः । 25 अन्यत्राप्युक्तम् 'यत्राधिक्यं स वाक्यार्थः' इति । तस्मादन्यः पदार्थोऽन्यश्च
वाक्यार्थः ।