________________
आह्निकम् ]
प्रमाणप्रकरणम् वक्तुमुचितम्, अनिष्पन्नस्य तस्य ताद्रूप्याभावात् । न ह्यनिष्पन्ने गवि तदेकदेशे सास्नादौ गोत्वरूपं सामान्यं निविशते, न चांशत्रयपूरणमन्तरेण भावनाख्यव्यापारनिष्पत्तिरिति । ___ यत्तु लिङादेः शब्दस्य तद्व्यापारस्य वा प्रेरकत्वमुच्यते तत् प्रागेव प्रतिक्षिप्तम् ।
विधिरपि स्वमहिम्ना न प्रेरकः साध्यसाधनसम्बन्धावबोधपुरःसरे तु तस्य प्रवर्तकत्वे फलस्यैव प्रवर्तकत्वमिदमनक्षरमभिहितं भवति ।
यस्त्वाह प्रेरकत्वञ्चेत् फलं दर्शयतो विधेः । प्रत्यक्षादिसमानत्वात् स्वातन्त्र्यं तस्य हीयते ॥ स वाच्यः फलशून्यत्वे सुतरामस्वतन्त्रता ।
यद्रिक्तमर्थ मूढोऽपि न कश्चिदनुतिष्ठति ॥ को हि नाम निष्फलमर्थं प्रेक्षावाननुतिष्ठेत् । ननु फलेऽपि दर्शिते केचित् तत्र न प्रवर्तन्त एव । किञ्चातः, कामं मा प्रतिषत, न हि कारको विधिरपि तु ज्ञापक इत्युक्तम् । ननु फलमप्रदर्शयन्नपि ज्ञापयेत् ? न ज्ञापयितुमुत्सहते । प्रेक्षावान् हि ज्ञाप्यते । न च फलं विनासौ तथा ज्ञापितो भवति, 15 इत्यलं बहुभाषितया ।
फलस्यैवेष्यमाणस्य पश्यन् प्रेरकतामतः ।
यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत् ।। तस्मात् पुंसः प्रवृत्तौ प्रभवति न विधिर्नापि शब्दो लिङादिर्व्यापारोऽप्येतदीयो न हि पटुरभिधा भावनानामधेया ।
20 न श्रेयःसाधनत्वं विधिविषयगतं नापि रागादिरेवं
तेनाख्यत् काम्यमानं फलममलमतिः प्रेरकं सूत्रकारः ।। अंशद्वयं करणेतिकर्तव्यताख्यम् । अनिष्पन्नस्य फलांशापेक्षया अपरिपूर्णस्य । ताद्रूप्येति ताद्रूप्यं श्रेयःसाधनत्वम् । श्रेयःसाधनत्वं हि भावनायाः सामान्यम्, न भावनैकदेशस्य । अन्यथा हि ‘भावनायाः श्रयःसाधनत्वम्' इति व्यपदेशो न स्यात् ।
प्रत्यक्षादिसमानत्वादिति । यथा प्रत्यक्षं वस्तु दर्शयति, केवलं यस्तु तत्रार्थी स प्रवर्तते । एवं विधिः फलं प्रदर्शयति, फलार्थिनस्तु तत्र प्रवृत्तिरिति ।
25