________________
न्यायमञ्जय
[ पञ्चमम्
बोधीति । अतो विधिसम्बन्धे नञ इष्यमाणे एतावान् वाक्यार्थोऽवतिष्ठते हननविधिर्नास्तीति ततश्च हननस्य विधित्वञ्च स्यात् ।
अत्रोच्यते । दध्ना जुहोतीति होमस्य वचनान्तरचोदितत्वाद् विधिशक्तिरुपपदं सङ्क्रामतीति यथावणितम्, एवमिहापि हनने स्वतः प्रवृत्तत्वेन विधि5 वैफल्यात्, नञश्च श्रूयमाणस्यानर्थक्यप्रसङ्गाद्, विधायिका शक्तिर्नञर्थमेव स्पृशति इति किं नेष्यते ?
ननूक्तमत्र भावार्थः कर्मशब्द इति । तत्र दध्यनुरक्तो होम एव विधीयत इति फलतो विधिविहितो भवति न प्रमाणतः । इह तु नञस्तदुपमर्दस्वभावत्वाद् न केनचित् संसर्गो दध्यादेरिव कल्पते । मैवम् । निवृत्तिमेव कुर्वन्नञ्विशेषणं विशेषणीभवति । सेयं नजुपहिते हन्तौ श्रुते हनननिवृत्तिर्गम्यते, यथा सिद्धरूपदध्यनुप्रवेशेऽपि न होमस्य साध्यमानावस्था निवर्त्तते, तथा नञनुविद्धहन्त्यर्थावगतौ न पूर्वापरीभावबुद्धिनिवर्त्तते । न ब्राह्मणवन्न हन्यादिति सिद्धरूपबुद्धिः । सोऽयं हनननिवृत्तिरूपः पूर्वापरीभूतोऽर्थो विधिविषयो भविष्यति । अथ वा विभक्त्यर्थेन नञ् सम्भत्स्यते । शुद्धस्य लिङादेरर्थः प्रवर्तको नजुपहितस्य 15 तस्यार्थो निवर्तक इति शब्दशक्तिरेवैषा, कोऽत्र पर्यनुयोज्यत इति ।
यत्तु साक्षान्नञोऽनन्तरं विधिविभक्तिर्नोत्पद्यते तत् तस्याधातुत्वात्, धातोः परे तिङादयः प्रत्यया भवन्ति नान्यस्मादिति, योग्यतया तु नञर्थेन सम्बन्धः, न च तत्रायमर्थोऽवतिष्ठते हननविधिर्नास्तीति । किन्तु नजुपहितो विधिरौदास्ये पुरुषं नियुङ्क्ते, तदवच्छेदकश्च हन्तिः, अन्यथा सर्वक्रियौदासीन्यं प्रतीयेतेत्यलम् अतिविमर्देन । निषेधविधेरपि सिद्धोऽनुबन्धद्वययोगः ।
10
20
25
८२
एवं नियोगव्यापारे समाप्ते फलकल्पना | नृबुद्धिप्रभवैव स्यादतः सापेक्षता भवेत् ॥ कथं नरो निवर्तेत प्रत्यवायभयाद् विना । मा निर्वार्तिष्ट विधिना तावदुक्तं निवर्तनम् ॥
होमस्य वचनान्तरेति । 'अग्निहोत्रं जुहोति' इत्यनेन वचनेन ।
न प्रमाणत इति । जुहोतेः परस्या विधिविभक्तेः श्रवणात् । विभक्त्यर्थेन नञ् संभत्स्यत इति । नन्वेवं विधेः स्वरूपनाश इति चोदितम्, नेत्याह शुद्धस्येति ।