________________
५८
न्यायमञ्जऱ्यां
[पञ्चमम् अपि च पचतीत्याख्यातपदस्य यदार्थो व्याचिख्यासितो भवति, तदा पाकं करोतीति पाकशब्देन द्वितीयान्तेन साध्यं धात्वर्थं व्याचक्षते कर्तृव्यापारात्मकं प्रत्ययार्थं करोतीति पदेन ।
किञ्च किं करोति देवदत्त इति पृष्टाः सन्तो द्वये वक्तारो भवन्ति करोति 5 पाकमिति पचतीति वा । तदिदमुभयरूपमप्युत्तरमेकार्थम्, अन्यथा न तेन
प्रष्टा प्रत्याय्येत । तस्मात् पाकं करोतीति पदद्वयस्य योऽर्थः, स एवार्थ एकस्य पचतीति पदस्य । अत्रापि पचत्यर्थादन्यः करोत्यर्थः प्रतीयत एव, योऽसावन्यः करोत्यर्थः, स भावना।
आह, न कर्तृसंख्यादिव्यतिरेकेण प्रत्ययाद् धात्वर्थातिरिक्तं व्यापार प्रति10 पद्यन्ते, प्रतिपद्येरंश्चेत् करोतीत्यतोऽपि शब्दात् प्रतिपद्येरन् । करोतीत्यत्र
प्रकृतिप्रत्ययवाच्ये क्रिये न विभज्य प्रदर्शयितुं शक्यते । उच्यते । नेदं साधु बुध्यसे । (टिप्पणीस्थप्रतीकसदृशग्रन्थोऽत्र न दृश्यते )
यथा पाकं करोतीति प्रतीतिर्नास्ति लौकिकी। प्रत्ययार्थः करोत्यर्थे पचत्यादौ तु वर्त्तते ॥ कर्तृसंख्याप्रतीतौ च न विवादोऽस्ति कस्यचित् ।
तावता निह्नवः कार्यो न तु व्यापारसंविदः ॥ करोतीत्यादिशब्दाभिधेयया अनया यथा न भवितव्यं तथा विशिष्टेभ्यः शब्देभ्यस्तत्प्रतीतिरिष्यते न सर्वेभ्यः । के पुनस्ते विशिष्टाः शब्दा ये भावनामभिदधति ? उच्यते,
भावार्थाः कर्मशब्दा ये तेभ्यो गम्येत भावना। यजेतेत्येवमादिभ्यः स एवार्थो विधीयते ॥
न विभज्य प्रदर्शयितुं शक्यते इति । प्रकृतिप्रत्ययाभ्यामुभाभ्यामपि प्रयोजकव्यापारस्यैकस्यैवाभिधानात् ।
स एव समुदायेनेति । य एव पचतोत्यादौ प्रत्ययभागप्रतिपाद्यो व्यापारः, स 25 एवोभाभ्यां प्रकृतिप्रत्ययाभ्यां करोतीत्यनेन प्रतिपाद्यते ।