SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ यैश्चक्रे प्रथमाङ्गस्य दीपिकाऽर्थप्रदीपिका। ते जिनहंससूरीन्द्राः जीयासुर्गुरवो मम॥१५॥ युग्मम्॥ तत्पट्टलक्ष्मीतिलकानुकारा बभूवुरुद्दामगुणैरुदाराः। सूरीश्वरा लब्धनरेन्द्रमानाः श्रीजैनमाणिक्यवराभिधानाः॥१६॥ तत्पट्टोदयशैलराजशिखरप्रद्योतनोद्योतिनो, राजन्ते जिनचन्द्रसूरिगुरवस्तु सांप्रतं भूतले। यत्प्रौढप्रकटप्रतापमहिमामुद्वीक्ष्य विस्तारिणो, प्रोन्मादिप्रतिवादिकौशिककुलं त्रस्तं समस्तं क्षणात् ॥ १७॥ सम्प्राप्य तदादेशं श्रीमज्जिनहंससूरिशिष्यवरैः। श्रीपुण्यसागरमहोपाध्यायैरल्पमतिगम्या॥१८॥ एषा जम्बूद्वीपप्रज्ञतेर्वत्तिरादराद् विदधे। श्रीमत्पार्श्वजिनेश्वर-निजगुरुविशदप्रसादवशात् ॥ १९॥ श्रीअभयदेवसूरिश्रीमन्मलयगिरिकृतविविधवृत्तीः। सम्यग् विचार्य बुद्ध्या विलोक्य चान्यानि शास्त्राणि ॥२०॥ ॥त्रिभिः कुलकम्॥ वाचकाः पद्मराजाख्या अत्र सहायकं व्यधुः। तथा विशुद्धिमेतस्या युक्तायुक्तविवेचकाः॥ २१॥ आलस्यमपास्य निजं प्रथमादर्श लिलेख सोल्लासम्। वृत्तिमिमां सन्महिमां विशुद्धधीनितिलकगणिः॥ २२॥ मोहाद्यदत्राभिहितं विरुद्धं सत्सम्प्रदायस्य वियोगतो वा। दयालुचितैर्हदयालुभिस्तन्मात्सर्यमुत्सार्य विशोधनीयम् ॥ २३ ॥ श्रीमज्जेसलमेरुदुर्गनगरे श्रीभीमभूमीपतौ राज्यं टीकेयं विहिता सदैव जयतादाचन्द्रसूर्ये भुवि॥ २४॥ त्रयोदश सहस्राणि द्वे शते पंचसप्ततिः। प्रायेणास्या ग्रंथमानं प्रत्यक्षरनिरूपणात् ॥ २५ ॥ ग्रंथाग्रं १३२७५ शुभं भवतु। संवत् १६५२ वर्षे राउल श्रीभीमजीविजयराज्ये युगप्रधान श्रीजिनचन्द्रसूरिसूरीश्वरविजयराज्ये आचार्यश्रीजिनसिंहसूरियौवराज्ये श्रीपुण्यसागरमहोपाध्यानामुपदेशेन श्रीऊकेशवंशे श्रीशंखवालगोत्रे सा. कोचरसंताने सा. ३० ४॥
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy