SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ तथा च लक्षणस्वरूपम् । साध्याभावाधिकरणनिरूपितवृत्तित्वाभावो व्याप्तिः । पर्वतो वह्निमान् धूमात् इत्याकारकन्यायस्थलीयसद्धेतौ लक्षणसमन्वय प्रकारश्वेत्थम् । साध्योः-वह्निः, साध्याभावः-वन्यभावः, तदधिकरणञ्जलहूदादिकम्, तन्निरूपित वृत्तिता मीनादौ वृत्तित्वाभावस्य धूमरूपहेतौ सत्त्वात् लक्षणसमन्वयः । लक्षणेऽस्मिन् यदि साध्याभावाधिकरणनिरूपितवृत्तिताया नियामकः कश्चन सम्बन्धो न निवेश्यते तदा पर्वतो वह्निमान् धूमात् इत्यत्र भवत्यव्याप्तिः। तथाहि:साध्यो वह्निः, साध्याभावः वन्यभावः, तदधिकरणम् धूमावयवः तन्निरूपितसमवायसम्बन्धावच्छिन्नावृत्तितैव धूमे । यतोहि समवाय सम्बन्धावच्छिन्नधूमनिष्ठधेयतानिरूपिताधिकरणतायाः धूमावयवे विद्यमानत्वात। वृत्तित्वाभावस्याभावादव्याप्तिः । . अतस्तद् वारणाय साध्याभावाधिकरणनिरूपितवृत्तितायां हेतुतावच्छेदक सम्बन्धावच्छिन्नत्वं निवेशनीयम् । हेतुतावच्छेदक सम्बन्धश्च येन सम्बन्धेन हेतुः पक्षे तिष्ठति स सम्बन्धः, येन सम्बन्धेन हेतुः साध्यव्याप्यो भवति स सम्बन्धो वा । प्रकृते च धूमरूपहेतुः संयोगसम्बन्धेन पक्षभूते पर्वते भासते । अतः हेतुतावच्छेदकसम्बन्धः संयोगसम्बन्धः । तेनैव संयोग-सम्बन्धेन साध्याभावाधिकरण निरूपितवृत्तिताऽत्र विवक्षिता । तथा च साध्यो वह्निः, साध्याभावः वह्यभावः, तदधिकरणं धूमावयवः तन्निरूपित संयोगसम्बन्धावच्छिन्ना वृत्तिताऽपरधूमावयवे वृत्तित्वाभावस्य धूमे विद्यमानत्वान्नाव्याप्तिः । यदि च लोकप्रसिद्ध हृदादिविपक्षस्थलेऽव्याप्तिदोषार्पणं सम्भवति तदा तदपेक्षयाऽप्रसिद्ध धूमावयवरूप विपक्षेऽव्याप्तिदानमनुचितम् । अथवा पूर्वोक्त
SR No.002343
Book TitleGudhamrutlila
Original Sutra AuthorN/A
AuthorRajdharmvijay
PublisherShrutgyan Sanskar Pith
Publication Year
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy