________________
पालयन्तं परिवज्यां पापपुञ्जप्रणाशकम् । पन्न्यासपुष्कलं पद्मं प्रणौमि पुण्यशालिनम् ।।७।। ग्रन्थस्य रचनापृष्ठे श्लाघ्या यस्य सहायता । तं गुरुवरदुर्गेशं करोमि स्मरणं मुदा ।। ८ ।। इत्येतैः प्रथितश्लोकैः कृत्वा मङ्गलमद्भुतम् । । विरच्येते “शशीशीला” “गूढामृतलीला” मया ।। ९।।
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।
आश्रयः सर्वधर्माणां से यमान्वीक्षिकी मता ॥ इत्यादि वाक्यात् गौतमीयन्यायशास्त्र प्रमाणा-विद्या-तर्क शास्त्रान्वीक्षिकीनामभिरपि ज्ञायते । मेयसिद्धेः मानाधीनत्वात् । सर्वशास्त्राणां प्रदीपकल्पा प्रमाणविद्येयं द्योतते ।
प्रमाणपदार्थप्राणाः खलु नैयायिका वर्धन्ते । यस्मात् प्रत्यक्ष सिद्धोपि पदार्थस्य धर्मः तमसाच्छन्नैरपि प्रतीयमानैः हेतुभिः सुस्थापितः सन् पदार्थधियं तनोति । तस्मात् पदार्थेषु अनुमानं विशिष्यते ।
उक्तमपि प्रत्यक्ष परिकलितमपि अर्थमनुमानेन बुभुत्सन्ति तर्करसिकाः इति वाचस्पतिना ।
येन सम्बन्धेन विना लोकव्यवहारे शास्त्रेषु च व्यवस्थाकल्पनापि उच्छिद्यते । तस्य सम्बन्धराजस्य स्वरूपनिरूपणार्थमागङ्गेशोपाध्यायाद् नैरन्तर्येण नव्यनैयायिकानां महती साधना प्रसूनवती दिव्येव लता विदूषां विस्मयायात्मानं तनोति ।
तत्र पूर्वपक्षत्वेन रूपेण, ननु अनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः ? इत्यादि विप्रतिपत्तिप्रशमनाय अव्यभिचरितत्वपदप्रतिपाद्यसाध्याभाववदवृतित्वरूप व्याप्तिनिरूपणं प्रतिजानीते ।