________________
पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपद्धतयः ॥५॥ ताभ्यो विसृताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् । पारम्पर्यादुच्छेषिकाः कृपणकेन संहृत्य ॥ ६ ॥ तद्भक्तिबलार्पितया मयाप्यविमलाल्पया स्वमतिशक्त्या । प्रशमेष्टतयानुसृता विरागमार्गकपदिकेयम् ॥ ७ ॥ यद्यप्यवगीतार्था न वा कठोरप्रकृष्ठभावार्था । सिद्भिस्तथापि मय्यनुकम्पैकरसैरनुग्राह्याः ॥ ८ ॥ कोऽत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि वा ह्यन्यत् । दोषमलिनेऽपि सन्तो यद्गुणसारग्रहणदक्षाः ॥ ९ ॥ सद्भिः सुपरिगृहीतं यत्किश्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्थः ॥ ९० ॥ बालस्य यथा वचनं काहलमपि शोभते पितृसकाशे । तद्वत्सज्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥ ११ ॥ ये तीर्थकृत्प्रणीता भावास्तदनन्तरैश्च परिकथिताः। तेषां बहुशोऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥ १२ ॥ यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥ १३ ॥ यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यतेऽर्त्तिनाशाय । तद्वद्रागातिहरं बहुशोऽप्यनुयोज्यमर्थपदम् ॥ १४ ॥ वृत्यर्थ कर्म यथा तदेव लोकः पुनः पुनः कुरुते । एवं विरागवार्ताहेतुरपि पुनः पुनश्चिन्त्यः ॥ १५॥ दृढतामुपैति वैराग्यभावना येन येन भावेन । तस्मिँस्तस्मिन् कार्य: कायमनोवाग्भिरभ्यासः ॥ १६ ॥ माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः । दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः ॥ १७ ॥ इच्छा मूर्छा कामः स्नेहो गाय ममत्वमऽभिनन्दः। अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥ १८ ॥ ईर्ष्या रोषो दोषो द्वेषः परिवादमत्सरासूयाः । वैरप्रचण्डनाद्या नैके द्वेषस्य पर्यायः ॥ १९॥ रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्टया । पञ्चास्रवमलबहुलातरौद्रतीब्राभिसन्धानः ॥ २०॥ कार्याकार्यविनिश्चयसडेक्लेशविशुद्धिलक्षणैर्मुढः । आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः ॥ २१ ॥