________________
जुषां शिवङ्करः ॥९॥ ईशाननाथेन समं शतक्रतुः सनत्कुमाराधिपतिः सुरान्वितः । श्रीब्रह्मलोकाधिपतिश्च सेवते सगौतमं मन्त्रवरं पदे पदे ॥ १० ॥ अष्टनागकुलनायको मणिप्रोल्लसत्फणसहस्रभासुरः । गौतमाय धरणः कृताञ्जलिमन्त्रराजसहिताय वन्दते ॥ ११ ॥ . रोहिणीप्रभृतयः सुराङ्गना वासवा अपि परे सदाश्रवाः । गौतम मनसि यक्षयक्षिणीश्रेणयोऽपि दधती मुनीश्वरम् ॥ १२॥ सन्जलानधनभोगधृतीनां लब्धिरद्भुततमेहभवे स्यात् । गोतमस्मरणतः परलोके भूभुवःस्वरपवर्गसुखानि ॥१३॥ आँक्राँश्रीही मन्त्रतो ध्यानकाले पार्वे कृत्वा प्राञ्जलिः सर्वदेवान् । कायोत्सर्गंधूपकपुरवासैः पूजां कुर्यात् सर्वदा ब्रह्मचारी ॥१४॥ जितेन्द्रियः स्वल्पेजलाभिषेकवान् शुद्धाम्बरो गुप्तिसमित्यलङ्कृतः । श्रीइन्द्रभूतेरुपर्वणवं गुणान स्मरन्नरः स्याच्छुतसिन्धुपारगः ॥१५॥ तं श्रयन्ति पुरुषार्थसिद्धयो भूष्यते विशदसाहसेन सः । गौतमः प्रणयिभुक्तिमुक्तिदो यस्य भाविविभवस्य नाथते ॥ १६ ॥
वाचकेन्द्रोमास्वातिविरचितं श्रीप्रशमरतिप्रकरणम ।
नाभेयाद्याः सिद्धार्थराजसूनुचरमाश्चरमदेहाः । पञ्च नव दश च, दशविधधर्मविधिविदो जयन्ति जिनाः ॥१॥ जिनसिद्धाचार्योपाध्यायान् प्रणिपत्य सर्वसाधूंश्च । प्रशमरतिस्थैर्यार्थ वक्ष्ये जिनशासनात्किञ्चित् ॥२॥ यद्यप्यनन्तगमपर्यायार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं प्रवेष्टुमबहुश्रुतैःदखम् ॥ ३॥ श्रुतबुद्धिविभवपरिहीणकस्तथाप्यहमशक्तिमविचिन्त्य । द्रमक इवावयवोञ्छकमन्वेष्टुं तत्प्रवेशेप्मुः ॥४॥ बहुभिर्जिनवचनार्णवपारगतैः कविवृषैर्महामतिभिः ।