________________
७५
इति पण्डितश्रीनयविजयगणिशिष्यपण्डितश्रीपद्मविजयगणिसहोदरोपाध्यायश्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे साम्ययोगशुद्धिनामा चतुर्थोऽधिकारः समाप्तः ॥ ४ ॥
॥ समाप्तमिदं यशः श्रयङ्कमध्यात्मोपनिषत्प्रकरणम् ॥
॥ श्रीमन्त्राधिराजगभिंतश्रीगौतमस्वामिस्तवनम् ॥
नमोऽस्तु श्री ही धृतिकीर्तिबुद्धिलक्ष्मीविलासैकनिकेतनाय । श्री वीरपट्टाम्बरभास्कराय लोकोत्तमाय प्रभुगौतमाय ॥ १ ॥ ॐकारमक्षीणमहानसानां श्रीमन्तमुज्जृम्भतपः प्रभावैः । ह्रींमन्तमात्मानुगवन्दनेनाऽर्हन्तं नमस्यामि तमिन्द्रभूतिम् ॥ २ ॥ उन्निद्रसौवर्णसइस्रपत्रगर्भस्थ सिंहासनसंनिषण्णम् । दिव्यातपत्रं परिवीज्यमानं सचामरैश्वाऽमरराजसेव्यम् ॥ ३ ॥
कल्पद्रुचिन्तामणिकामधेनुसमाननामानममानशक्तिम् । अनेकलोकोत्तरलब्धिसिद्ध श्रीगौतमं धन्यतमाः स्मरन्ति ॥ ४ ॥ एकै षड्दर्शन कनीनिका पुराणवेदागमजन्मभूमिका । आनन्दचित्रह्ममयी सरस्वती सदेन्द्रभूतेश्वरणोपसेविनी ॥ ५ ॥ सदा चतुष्षष्टिसुरेन्द्रमानसव्यामोहिनी पद्महृदाधिवासिनी । सर्वाङ्गशृङ्गारतर - ङ्गितद्युतिः श्रीगौतमं श्रीरपि वन्दते त्रिधा || ६ || जयाजयन्ती - विजयापराजितानन्दा सुभद्राप्रमुखः सुरीजनः । प्रतिक्षणोज्जागरभूरिविभ्रमः श्रीगौतमं गायति गाढगौरवः ॥ ७ ॥ मानुषोत्तर गिरेः शिरः स्थिता, दोः सहस्रसुभगा महाप्रभा । गीतगौतमगुणा त्रिविष्ट - पस्वामिनी शिवशतं दधातु मे ॥ ८ ॥ यक्षषोडशसहस्रनायको दिव्यविंशतिभुजो महाबलः । द्वादशाङ्गसमयाधिदेवता गौतमस्मृति