________________
७४
कषाया आभासिका इत्यभिमानमात्रम् । नाशो हि भावः प्रतिस
ङ्ख्यया यो नाबोधवत्साम्यरतौस तिष्ठेत् ॥ १२ ॥ साम्यं विना यस्य तपःक्रियादेर्निष्ठा प्रतिष्ठार्जनमात्र एव ॥ स्वर्धेनुचिन्तामणिकामकुम्भान् करोत्यसौ काणकपर्दमूल्यान् ॥ १३ ॥ ज्ञानी क्रियावान् विरतस्तपस्वी ध्यानी च मौनी स्थिरदर्शनश्च । साधुर्गणं तं लभते न जातु, प्राप्नोति यं साम्यसमाधिनिष्ठः ॥ १४ ॥ दुर्योधनेना. भिहतश्चकोप न पाण्डवैर्यो न नुतो जहर्ष । स्तुमो भदन्तं दमदन्तमन्तःसमत्ववन्तं मुनिसत्तमं तम् ॥ १५ ॥ यो दह्यमानां मिथिलां निरीक्ष्य शक्रेण नुन्नोऽपि नमिः पुरी स्वाम् । न मेऽत्र किञ्चिज्ज्वलतीति मेने साम्येन तेनोरुयशो वितेने ॥ ९६ ॥ साम्यप्रसादास्तवपुर्ममत्वाः सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा । न सेहिरेऽत्ति किमु तीव्रयन्त्रनिष्पीडिताः स्कन्धकसूरिशिष्याः ॥ १७ ।। लोकोत्तरं चारुचरित्रमेतन्मतार्यसाधोः समतासमाधेः । हृदाप्यकुप्यन्न यदाचमबद्धेऽपि मूर्धन्ययमाप तापम् ॥ १८ ॥ जज्बाल नान्तश्च सुराधमेन प्रोज्ज्वालितेऽपि ज्वलनेन मौलौ । मौलिमनीनां स न कैर्निषेव्यः कृष्णानुजन्मा समताऽमृताब्धिः ॥ १९ ॥ गङ्गाजले यो न जहौ सुरण विद्धोऽपि शूले समतानुवेधम् । प्रयागतीर्थोदयकृन्मुनीनां मान्यः स सूरिस्तनुजोऽनिकायाः ॥ २० ॥ स्त्रीभ्रूणगोब्राह्मणघातजातपापादधःपातकृताभिमुख्याः । दृढप्रहारिप्रमुखाः क्षणेन साम्यावलम्बात्पदमुच्चमापुः ॥ २१ ॥ अप्राप्तधर्माऽपि पुराऽऽदिमाहन्माता शिवं यद्भगवत्यवाप । नाप्नोति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विजृम्भितं तत् ॥ २२ ॥
इति शुभमतिर्मत्या साम्यप्रभावमनुत्तरं य इह निरतो नित्यानन्दः कदापि न खिद्यते । विगलदखिलाविद्यः पूर्णस्वभावसमृद्धिमान , स खलु लभते भावारीणां जयेन यशःश्रियम् ॥२३॥