________________
इति पण्डितश्रीनयविजयगणिशिष्यपण्डितश्रोपद्मविजयगणिसहोदरोपाध्यायश्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे
क्रियायोगशुद्धिनामा तृतीयोऽधिकारः समाप्तः ॥३॥
॥ ज्ञानक्रियाश्वद्वययुक्तसाम्य-रथाधिरूढः शिवमार्गगामी । न ग्रामपू:कण्टकजारतीनां जनोऽनुपानत्क इवातिमेति ॥१॥ आत्मप्रवृत्तावतिजागरूकः परप्रवृत्तौ बधिरान्धमूकः । सदा चिदानन्दपदोपयोगी लोकोत्तरं साम्यमुपैति योगी ॥२॥ परीषहैश्च प्रबलोपसर्गयोगाञ्चलत्येव न साम्ययुक्तः । स्थैर्याद्विपर्यासमुपैति जातु क्षमा न शैलैर्न च सिन्धुनाथैः ॥ ३ ॥ इतस्ततो नारतिवह्रियोगादुड्डीय गच्छेद्यदि चित्तसूतः । साम्यैकसिद्धौषधमूच्छितः सन् कल्याणसिद्धेन तदा विलम्बः ॥ ४ ॥ अन्तर्निमग्नः समतासुखाब्धी बाह्ये सुखे नो रतिमेति योगी । अटत्यटव्यां क इवार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षे ॥ ५ ॥ यस्मिन्नविद्यार्पितबाह्यवस्तुविस्तारजभ्रान्तिरुपैति शान्तिम् । तस्मिंश्चिदेकार्णवनिस्तरङ्गस्वभावसाम्ये रमते सुबुद्धिः ॥ ६ ॥ शुद्धात्मतत्त्वप्रगुणा विमर्शा स्पर्शाख्यसंवेदनमादधानाः । यदान्यबुद्धिं विनिवर्तयन्ति तदा समत्वं प्रथतेऽवशिष्टम् ॥ ७ ॥ विना समत्वं प्रसरन्ममत्वं सामायिकं मायिकमेव मन्ये । आये समानां सति सद्गुणानां शुद्ध, हि तच्छुद्धनया विदन्ति ॥ ८ ॥ निशानभोमन्दिररत्नदीप्रज्योतिर्मिरुद्दयोतितपूर्वमन्तः । विद्योतते तत्परमात्मतत्त्वं प्रसृत्वरे साम्यमणिप्रकाशे ।।९।। एकां विवेकाङ्कुरितां श्रिता यां निर्वाणमापुर्भरतादिभूपाः। सैवर्जुमार्गः समता मुनीनामन्यस्तु तस्या निखिल: प्रपञ्चः ॥ १० ॥ अल्पेऽपि साधुन कषायवगावह्नाय विश्वासमुपैति भीतः । प्रवर्धमानः स दहेद्गणौघं साम्याम्बुपूरैर्यदि नापनीतः ॥ ११॥ प्रारब्धजा ज्ञानवतां