________________
म्रियमाणोऽपि जीव्येत शिष्यादृष्टवशागुरुः ॥ २९ ॥ स्वभावान्निरुपादानं यदि विद्वत्तनुस्थितिः । तथापि कालनियमे तत्र युक्तिन विद्यते ॥ ३० ॥ उच्छृङ्खलस्य तच्चिन्त्यं मतं वेदान्तिनो ह्यदः । प्रारब्धादृष्टतः किं तु ज्ञेया विद्वत्तनुस्थितिः ॥ ३१ । तत्प्रारब्धेतरादृष्टं ज्ञाननाश्यं यदीष्यते। लाधवेन विजातीयं तन्नाश्यं तत्प्रकलप्यताम् ॥ ३२ ॥ इत्थं च ज्ञानिनो ज्ञाननाश्यकर्मक्षये सति । क्रियैकनाश्यकौघक्षयार्थ सापि युज्यते ॥ ३३ ॥ सर्वकर्मक्षये ज्ञानकर्मणोस्तत्समुच्चयः । अन्योऽन्यप्रतिबन्धेन तथा चोक्त परैरपि ॥ ३४ ॥ न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ । एकोऽपि मैतयोस्तावत्पुरुषस्येह सिध्यति ॥ ३५ ॥ यथा छाद्मस्थिके ज्ञानकर्मणी सहक(ग?)त्वरे। क्षायिके अपि विज्ञेये तथैव मतिशालिभिः ॥ ३६ ॥ सम्प्राप्तकेवलज्ञाना अपि यजिनपुङ्गवाः । क्रियां योगनिरोधाख्यां कृत्वा सिध्यन्ति नान्यथा ॥ ३७ ॥ तेन ये क्रियया मुक्ता ज्ञानमात्राभिमानिनः । ते भ्रष्टा ज्ञानकर्मभ्यां नास्तिका नात्र संशयः ॥ ३८ ॥ ज्ञानोत्पत्तिं समुद्भाव्य कामादीनन्यदृष्टितः । अपहुवानैलॊकेभ्यो नास्तिकैर्वश्चितं जगत् ।।३९ ॥ ज्ञानस्य परिपाकाद्धि क्रियाऽसङ्गत्वमङ्गति । न तु प्रयाति पार्थक्यं चन्दनादिव सौरभम् ॥ ४० ॥ प्रीतिभक्तिवचोऽसंगैरनुष्ठानं चतुर्विधम् । यत्पर्योगिभिगीतं तदित्थं युज्यतेऽखिलम् ॥ ४१ ॥ ज्ञाने चैव क्रियायां च युगपद्विहितादरः । द्रव्यभावविशुद्धः सन् प्रयात्येव परं पदम् ॥४२॥
क्रियाज्ञानसंयोगविश्रान्तचित्ताः समुद्भूतनिर्बाधचारित्रवृत्ताः । नयोन्मेषनिर्णीतनिःशेषभावास्तपःशक्तिलब्धप्रसिद्धप्रभावाः ॥ ४३ ॥ भयक्रोधमायामदाज्ञाननिद्राप्रमादोज्झिताः शुद्धमुद्रा मुनीन्द्राः । यशःश्रीसमालिङ्गिता वादिदन्तिस्मयोच्छेदहर्यक्षतुल्या जयन्ति ॥४४॥