________________
७८
क्लिष्टाष्टकर्मबन्धनबद्धनिकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्त्र बहुविधपरिवर्तनाभ्रान्तः ।। २२ ।। दुःखसहस्रनिरन्तरगुरुभाराक्रान्तकर्षितः करुणः । विषयसुखानुगततृषः कषायवक्तव्यतामेति ॥२३॥ स क्रोधमानमायालो भैरतिदुर्जयैः परामृष्टः । प्राप्नोति याननर्थान् कस्तानुद्देष्टुमपि शक्तः ॥ २४ ॥ क्रोधात्प्रीतिविनाशं मानाद्विनयोपघातमाप्नोति । शाठ्यात्प्रत्यग्रहानिं सर्वगुणविनाशनं लोभात् ||२५|| क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥ २६ ॥ श्रुतशीलविनयसंदूषणस्य धर्माकामविघ्नस्य मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात ॥। २७ ॥ मायाशीलः पुरुषो यद्यपि न करोति किञ्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोपहतः ॥ २८ ॥ सर्वविनाशाश्रयिणः सर्वव्यस नैकराजमार्गस्य । लोभस्य को 'मुखगतः क्षणम दुःखान्तरमुपेयात् ॥ २९ ॥ एवं क्रोधो मानो माया लोभश्च दुःखहेतुत्वात् । सत्त्वानां भवसंसारदुर्गमार्गप्रणेतारः ॥ ३० ॥ ममकाराहङ्कारावेषां मूलं पदद्वयं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः ॥ ३१ ॥ मायालोभकषायश्चेत्येतद्रागसंज्ञितं द्वन्द्वम् । क्रोघो मानश्च पुनद्वेष इति समासनिर्दिष्टः ||३२|| मिथ्यादृष्ट्य विरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मबन्धस्य हेतू तौ ॥ ३३ ॥ स ज्ञानदर्शनावरणवेद्यमोहायुषां तथा नाम्नः । गोत्रान्तराययोश्चेति कर्मबन्धोऽष्टधा मौलः ॥ ३४ ॥ चनवद्वयष्टाविंशतिकश्चतुःषट्कसप्तगुणभेदः । द्विपञ्चभेद इति सप्तनवतिभेदास्तथोत्तरतः ॥ ३५ ॥ प्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः । तीव्रो मन्दो मध्य इति भवति बन्धोदयविशेषः ||३६|| तत्र प्रदेशबन्धो योगात्तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥ ३७ ॥ ताः कृष्णनीलकापोततैजसीपद्मशुकूलनामान: । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः