________________
लेषु स तेन विनियोजितः ॥ ५० ॥ तेनादौ शोधयेञ्चित्तं सद्विकल्पव्रतादिभिः । यत्कामादिविकाराणां प्रतिसंख्याननाश्यता ॥५१॥ विकल्परूपा मायेयं विकल्पेनैव नाश्यते । अवस्थान्तरभेदेन तथा चोक्त परैरपि ॥ ५२ ।। अविद्ययैवोत्तमया स्वात्मनाशोद्यमोत्थया । विद्या सम्प्राप्यते राम सर्वदोषापहारिणी ॥५३॥ शाम्यति घस्त्रमस्रोण मलेन क्षाल्यते मलः । शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥ ६४ ॥ ईदृशी भूतमायेयं या स्वनाशेन हर्षदा । न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥ ५५ ॥ व्रतादिः शुभसङ्कल्पो नि श्याशुभवासनाम् । दाह्य विनैव दहनः स्वयमेव विनश्यति ॥ ५६ ॥ इयं नैश्चेयिकी शक्तिर्न प्रवृत्तिर्न वा क्रिया। शुभसङ्कल्पनाशार्थ योगिनामुपयुज्यते ॥५७॥ द्वितीयापूर्वकरणे क्षायोपशमिका गुणाः । क्षमाद्या अपि यास्यन्ति स्थास्यन्ति क्षायिकाः परम् ॥ ५८॥ ___ इत्थं यथावलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममान्तरार्थे । चिन्मात्रनिर्भरनिवेशितपक्षपातः, प्रातर्युरत्नमिव दीप्तिमुपैति योगी ॥ ५९॥ अभ्यस्य तु प्रविततं व्यवहारमार्ग, प्रज्ञापनीय इह सद्गुरुवाक्यनिष्ठः। चिदर्पणप्रतिफलत्रिजगद्विवर्ते, वर्तेत किं पुनरसौ सहजान्मरूपे ॥ ६०॥ भवतु किमपि तत्त्वं बाह्यमाभ्यन्तरं वा, हृदि वितरति साम्यं निर्मलश्चिद्विचारः । तदिह निचितपञ्चाचारसञ्चारचारुस्फुरितपरमभावे पक्षपातोऽधिको नः ॥ ६१ ॥ स्फुटमपरमभावे नैगमस्तारतम्यम् . प्रवदतु न तु हृष्येत्तावता ज्ञानयोगी। कलितपरमभावं चिच्चमत्कारसारम्, सकलनयविशुद्ध चित्तमेकं प्रमाणम् ॥ ६२॥ हरिरपरनयानां गर्जितैः कुञ्जराणाम् सहजविपिनसुप्तो निश्चयो नो बिभेति । अपि तु भवति लीलोज्जम्भिजृम्भोन्मुखेऽस्मिन् गलितमदभरास्ते नोच्छ्वसन्त्येव भीता ॥ ६३ ॥