________________
कलितविविधबाह्यव्यापकोलाहलौघव्युपरमपरमार्थे भावनापावनानाम् । कचन किमपि शोच्यं-नास्ति नैवास्ति मोच्यं, न च किमपि विधेयं नैव गेयं न देयम् ॥ ६४॥ इति सुपरिणतात्म-ख्यातिचातुर्यकेलिर्भवति यतिपतिर्यश्चिद्भरोद्भासिवीर्यः । हरहिमकरहारस्फारमन्दारगङ्गारजतकलशशुभ्रा स्यात्तदीया यशःश्री ।। ६५ । इति श्रीपण्डितनयविजयगणिशिष्यपण्डितश्रीपद्मविजयगणिसहोदरोपाध्यायश्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रक- रणे ज्ञानयोगशुद्धिनामा द्वितीयोऽधिकारः समाप्त ॥ २॥
यान्येव साधनान्यादौ गृहणीयाज्ज्ञानसाधकः। सिद्धयोगस्य तान्येव लक्षणानि स्वभावतः ॥१॥ अत एव जगौ यात्रां सत्तपोनियमादिषु । यतनां सोमिलप्रश्ने भगवान् स्वस्य निश्चितम् ॥२॥ अतश्चैव स्थितप्रज्ञभावसाधनलक्षणे । अन्यूनाभ्यधिके प्रोक्त योगदृष्टया परैरपि ॥ ३॥ नाज्ञानिनो विशेष्येत यथेच्छाचरणे पुनः । ज्ञानी स्वलक्षणाभावात्तथा चोक्त परैरपि ॥ ४ ॥ बुद्धाऽद्वैतसतत्त्वस्य यथेच्छाचरणं यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥५॥ अबुद्धिपूर्विका वृत्तिर्न दुष्टा तत्र यद्यपि । तथापि योगजादृष्टमहिना सा न सम्भवेत् ॥ ६॥ निवृत्तमंशुभाचाराच्छुभाचारप्रवृत्तिमत् । स्याद्वा चित्तमुदासीनं सामायिकवतो मुनेः ॥७॥ विधयश्च निषेधाश्च नत्वज्ञाननियन्त्रिताः । बालस्यैवागमे प्रोक्तो नोहेशः पश्यकस्य यत् ॥ ८ ॥ न च सामर्थ्ययोगस्य युक्त शास्त्र नियामकम् । कल्पातीतस्य मर्यादाप्यस्ति न ज्ञानिनः कचित् ॥ ९॥ भावस्य सिद्ध्यसिद्धिभ्यां यच्चाकिञ्चिकरी क्रिया । ज्ञानमेव क्रियामुक्त राजयोगस्तदिष्यताम् ॥ १० ॥ मैवं नाकेवली पश्यो नापूर्वकरणं विना । धर्मसंन्यासयोगी चेत्य